________________
हैमनूतनलघुप्रक्रिया पुरस्तादेव न प्ररस्तात् । ईषदसमाप्तः पटुर्बहुपटुः बहुभुक्तम् , बहुमुखश्चन्द्रः । पक्षे कल्पबादिः ।। - यावादिभ्यः कः।७३।१५।। यावादिभ्यः स्वार्थे कः प्रत्ययो भवति । याव एव यावकः, मणिकः। भिक्षुकः ॥
त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ॥७३॥२९॥ त्याद्यन्तस्य सर्वादीनां च स्वरेषु मध्ये योऽन्त्यस्वरस्तस्मात्पूर्वोऽक् प्रत्ययो भवति कुत्सितादिषु । कुत्सितमल्पमज्ञातं वा पचति पचतकि । सर्वके, विश्वके, सर्वकस्मै ।
युष्मदस्मदोऽसोभादिस्यादेः ७।३॥३०॥ युष्मदस्मदित्येतयोः सकाराधोकारादिभकारादिवर्जितस्याद्यन्तयोः स्वरेष्वन्त्यात् पूर्वोऽक् प्रत्ययो भवति । त्वया मयेति त्वयका, मयका । त्वयकि, मयकि । युष्माककम् , अस्माककम् । असोभादि-स्यादेरिति किम् ? युष्मकासु, आवकयोः, युवकाभ्याम् , अस्मकाभिः। .
अव्ययस्य को दच ॥३॥३१॥ कुत्सितादिवर्थेषु द्योत्येषु अव्ययस्य स्वरेष्वन्त्यात् स्वरात् पूर्वमक् प्रत्ययो भवति तत्सभियोगे यत्ककारान्तमव्ययं तस्य दकारोऽन्तादेशो भवति । कुत्सिताधुच्चैरुच्चकैः। नीचकैः । धकिदै । हिरकुद् , पृथकद् ॥ १-इकारात्पूर्वमक् , अन्त्यस्य कस्य दः ।