________________
हैममूत लघुप्रक्रिया
गृही, भोगिकः, भोगी, विजयी, संयमी, स्थानिकः, स्थानी इत्यादि । जातिशब्देभ्यो नेकेनौ । व्याघ्रवान् । द्रव्यादिभ्योऽपि नेकेनौ । द्रव्यवान्, पुण्यवान् इत्यादि । धनादुत्तमर्णे । धनिकः धनी ॥
शृङ्गात् । ७|२|१२|| शृङ्गशब्दान्मत्वर्थे आरकः प्रत्ययो भवति मतुश्च । शङ्गमस्याऽस्तीति शृङ्गारकः, शृङ्गवान् । शिखादित्वात् शृङ्गी ॥
फलबच्चेनः | ७|२|१३|| फलवई इत्याभ्यां शृङ्गाच मत्वर्थे इनः प्रत्ययो भवति मतुश्च । फलिनः फलवान्, बर्दिणः, बर्डवान्, शङ्गिणः, शिखादित्वात् फली, वहीं ॥
मलादीमसच |७|२|१४|| मलशब्दान्मत्वर्थे ईमस इनश्च प्रत्ययौ भवतो मतुश्च । मलीमसः, मलिनः, मलवान् ॥
बलवातद्न्तललाटादूलः | ७|२|१९|| एभ्यो मत्वर्थे ऊलः प्रत्ययो भवति मतुश्च । बलूलः, बलवान्, वातूलः, दन्तूलः, ललाटूलः ॥
ऊर्णाहंशुभमो युस् | ७|२|१७|| ऊर्णा अहम् शुभम् इत्येतेभ्यो मत्वर्थे युस् प्रत्ययो भवति मतुश्च । ऊर्णायुः उरभ्रः । अहंयुरहंकारी, शुभंयुः कल्याणबुद्धिः । अहंशुभमिति विभक्तिप्रतिरूपकमव्ययम् ॥
१ - सिति पदत्वादवर्णवर्णस्येत्यालोपो न । २ - तौ मुम इति स्वानुस्वारानुनासिकौ ।