SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४१६ हैमनूतनलघुप्रक्रिया ___ कुशाग्रादीयः ७४११११६॥ कुशाग्रशब्दात्तस्य तुल्येऽथै ईयः प्रत्ययो भवति । कुशाग्रस्य तुल्यं कुशाग्रीयं शस्त्रम् । तदाकारत्वात् । कुशाग्रीया बुद्धिस्तीक्ष्णत्वात् ॥ ___ काकतालीयादयः ।७।१।११७॥ काकतालीयादयः शब्दा ईयप्रत्ययान्ताः साधवो भवन्ति तस्य तुल्येऽर्थे । काकतालस्य तुल्यं काकतालीयम् । अर्धेजरतीयम् । घुणाक्षरीयमित्यादि ॥ वेविस्तृते शालशङ्कटौ ।७।१।१२३॥ विशब्दात् विस्तृतेऽर्थे शालशङ्कट इत्येतौ प्रत्ययौ भवतः । विशाल: विशङ्कटः, विस्तृत इत्यर्थः ॥ कटः ।७।१।१२४॥ विशब्दाद् विस्तृतेऽर्थे कटः प्रत्ययो भवति । विकटः॥ संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे ७१।१२५॥ सम् प्र उद् नि इत्येतेभ्यो यथासंख्यं संकीर्णादिष्वर्थेषु कटः प्रत्ययो भवति । समः संकीर्णे सङ्कटः। प्रात्प्रकाशे प्रकटः, उदोऽधिके उत्कटः, नेः समीपे निकटः ॥ तत्र घटते कर्मणष्ठः ७।१।१३७॥ कर्मनशब्दात सप्तम्यन्ताद् घटते इत्यर्थे ठः प्रत्ययो भवति । कर्मणि घटते कर्मठः॥ १-अर्धश्वासौ जरन् । तत ईयः । अपदत्वाद् धुटस्तृतीय इति न । २-नाम्न इति नलोपः । . .
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy