SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघु प्रक्रिया २५ घोषवति १।३।२१ ॥ अतः परस्य पदान्तस्थस्य रोः स्थाने घोषवति परे उकारो भवति । लुगपवादः । धर्मो जयति । रोरिति किम् ? प्रातर्गच्छति ॥ अतोऽति रोरुः | १|३|२०|| अकारात्परस्य पदान्तस्थस्य रोः स्थाने अकारे परे उकारादेशो भवति । कोऽत्र, कोऽर्थः ॥ रोरे लुग्दीर्घश्चादिदुतः | १ | ३ | ४९ || रेफस्य रेफे परे लुग्भवति, अकारेकारोकाराणां चाऽव्यवहितपूर्वाणां दीर्घो भवति अनु । पुना रमते, मुनी राजते, पटू राजा । अन्विति किम् ? जिनो रोजते ॥ रो लुप्यरि |२| १ | ७५ || अहन् शब्दस्य स्यादिलुपि सत्यां पदान्ते रेफवर्जिते वर्णे परे रोऽन्तादेशो भवति । शेरपवादः । अहरधीते । अहर्गणः । अरीति किम् । अहोरूपम् ॥ १ - अवर्ण भो इत्यादिना विहितलुकोऽपवाद इत्याशयः । २- अत्र पूर्वमुत्वे रेफलोपाभावः । अन्वित्यस्याभावे तु परत्वाद्रेफलोप एव स्यात् । अत्र वि० वि० कारिका " सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् । परेण पूर्वबाधो वा प्रायशो दृश्यतामिह' ।। इति । अत्र धर्मो जयतीत्याद्युद्देशेन पूर्वार्धः, जिनो राजते इत्याद्युद्देशेन चोत्तराधे इत्याभाति । शास्त्रकृत्तु 'अनु' इत्यधिकरोति । तदेतत्समालोचनीयं तज्ज्ञैः ।। ३ - अह्न इति त्वम्, तत उत्वमोत्वं च ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy