SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४०८ हैमनूतनलघु प्रक्रिया स्तस्य भावः कर्म वाऽऽचतुर्यम् । राजादित्वाट् ट्यण् ॥ पृथ्वादेरिमन् वा | ७|१| ५८ || पृथ्वादिभ्यस्तस्य भावे इमन् प्रत्ययो वा भवति स्वतलौ च वा वचनाद्यथाप्राप्तमणादिरपि ॥ पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतो रः | ७|४|३९|| पृथ्वादीनामृकारस्य इमनि परे णीष्ठेयसुषु च परेषु र इत्ययमादेशो भवति । त्रन्त्येति अन्त्यस्वरादेर्लुक् । पृथोर्भावः प्रथिमा, पृथुत्वम्, पृथुता । वृवर्णादित्यपि । पार्थवम् । एवं दिमा मृदुत्वं मृदुता मार्दवमित्यादि ॥ वर्णदृढादिभ्यष् टयण च वा ।७।१।५९ ॥ वर्णविशेषवाचिभ्यो दृढादिभ्यश्च तस्य भावे यण इमन् च खतलौ च प्रत्यया भवन्ति । शौक्ल्यं शुक्लिमा शुक्लत्वं शुक्लता । दादूर्य द्रढिमा दृढत्वं दृढता, पारिवृद्यम्, परिव्रढिमा ॥ पतिराजान्तगुणाङ्गराजादिभ्यः च कर्मणि |७|१|६० ॥ पत्यन्तेभ्यो गुणाङ्गेभ्यो राजादिभ्यश्च तस्य भावे क्रियात्मककर्मणि च ट्यण् प्रत्ययो भवति त्वतलौ च । अधिपतेर्भावः कर्म वा आधिपत्यम् । अधिपतित्वमधिपतिता । एवं बार्हस्पत्यं प्राजापत्यं सैनापत्यं नारपत्यमित्यादि । आधि १ - अवर्णेवर्णस्येत्यलोपः । २ - त्रन्त्येत्यलोपः । ३ - पृथुमृदु इतिरादेशः । त्रन्त्येत्यलोपः I: । ४- -अवर्णे वर्णस्येत्यलोप आदिवृद्धिः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy