________________
३९४
हैमनूतनलघुप्रक्रिया शक्तियष्टेष्टीकम् ।।४।६४॥ शक्ति यष्टि इत्येताभ्यां तदस्य प्रहरणमित्यस्मिन् विषये टीकण् प्रत्ययो भवति । शक्तिः प्रहरणमस्य शक्तीकः, शक्तिीकी । याष्टीकः ॥
नास्तिकास्तिकदैष्टिकम् ।।४।६६॥ एते शब्दास्तदस्येत्यस्मिन् विषये इकण् प्रत्ययान्ता निपात्यन्ते । तेनैते रूढा एव बोध्याः। नास्ति परलोकः पुण्यं पापमिति ग मतिरस्य नास्तिकः। अस्ति परलोकः पुण्यं पापमिति मतिरस्य आस्तिकः । अत्र. नास्त्यस्ति शब्दावव्यये। दिष्टं दैवं तत्प्रमाणमिति मतिरस्य, दिष्टा प्रमाणानुपातिनी वा मतिरस्य दैष्टिकः ॥ ___तत्र नियुक्ते।६।४७४॥ सप्तम्यन्तानियुक्तेऽर्थे इकण प्रत्ययो भवति । नियुक्तोऽधिकृतो व्यापारित इत्यर्थः ॥
द्वारे नियुक्तो दौवारिकः द्वारादित्वादौः । आपणिकः ॥ __ अगारान्तादिकः ।६४७५॥ अगारान्तात्तत्र नियुक्तेऽर्थे इकः प्रत्ययो भवति । पूजागारिका, भाण्डागारिकः, कोष्ठागारिकः ।
निकटादिषु वसति: ।६४७७॥ निकटादिभ्यः
पाणकः ।।
६-स्त्रियां टित्वान्डीः