SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २१ AAAAAAAA हैमनूतनलघुप्रक्रिया पैट्सीदन्ति । भवान्त्साधुः, भवान् साधुः ॥ स्वरेभ्यः ।१।२।३०॥ स्वरात्परस्य छकारस्य द्वे रूपे भवतः ॥ अघोषे प्रथमोऽशिटः ।१।३।५०॥ शिड्वर्जस्य धुटः स्थानेऽघोषे परे प्रथमो भवति । देवच्छत्रम् , गच्छति ॥ अनाङ्माङो दीर्घाखा छः ।१३।२८|| आङ्माङ् वर्जितपदसम्बन्धिनो दीर्घात्पदान्तस्थात्परस्य छकारस्य द्वे रूपे वा भवतः । कन्याच्छत्रम् , कन्याछत्रम् ॥ ____ प्लुताद्वा ।१।३।२९॥ पदान्तस्थाद् दीर्घस्थानात्प्लुतात्परस्य छकारस्य द्वे रूपे वा भवतः। आगच्छ मुने ३ च्छत्रमानय, आगच्छ मुने ३ छत्रमानय । आङ्माङ्वर्जनात्ततोनित्यमेव-आच्छाया, मा च्छिदत् ।। तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे चटवर्गों ११३६०॥ तवर्गस्य स्थाने शकारचवर्गाभ्यां योगे चवर्गः, षकारटवर्गाभ्यां योगे च टवर्गः स्यात् । तच्छास्त्रम् , तच् शास्त्रम् । तच्चारु, पेष्टा, तट्टीकते ॥ सस्य शषौ ।१।३।६१॥ सकारस्य स्थाने शकारचवर्गाभ्यां योगे शकारः, षकारटवर्गाभ्यां योगे च षकारो भवति । २-सस्य शषाविति न प्रवर्तते, पदान्ताट्टवर्गादिति निषेधात् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy