SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ है मनूतनलघुप्रक्रिया ३५९ तिलयवादनाम्नि | ६| २|५२ || तिल यव इत्येताभ्यां विकारेऽवयवे च मयट् प्रत्ययो भवत्यनाम्नि । तिलमयम्, यवमयम् । नाम्नि त्वणेव तैलं यावः, स एव यावकः स्वार्थे कः ॥ पिष्टात् |६|२|५३ || पिष्टशब्दाद्विकारे मयटू प्रत्ययो भवत्यनाम्नि | पिष्टमयम् ॥ नाम्नि कः | ६ | २|५४ || पिष्टशब्दानाम्नि विकारे कः प्रत्ययो भवति । पिष्टस्य विकारः पिष्टिका ॥ योगोदोहादीनञ् हियगुचाऽस्य |६| २|५५ ॥ गोate शब्दाद्विकारे नाम्नि इनञ प्रत्ययो भवति तत्सन्नियोगे च प्रकृतेर्हियङ्गु इत्यादेशः । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतं घृतं वा । असंज्ञायामणेव, गोदमुदविदादि ॥ अपो यञ् वा | ६|२|५६ || अप् शब्दाद्विकारे यब् प्रत्ययो वा भवति । अपां विकार आप्यम्, अम्मर्यम् ॥ लुब्बहुलं पुष्पमूले |६| २|५७॥ विकारावयवयोर्विहितस्य प्रत्ययस्य पुष्पे मूले वा विकारतयाऽवयवतया वा ३ - आदित्यापि अस्यायत्तदितीत्वम् । ४- गवां दोहों गोदोहः, ह्यो गोदोहः, अस्वयम्भुव इत्यव् । आदिवृद्धिः । ५-धुट इति तृतीयः, प्रत्यये चेति पञ्चमः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy