SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३२४ हैमनूतनलघुप्रक्रिया परि अप वा पाटलिपुत्राद् वृष्टो मेघः । पाटलिपुत्र वर्जयित्वेत्यर्थः॥ यतः प्रतिनिधिप्रतिदाने प्रतिना ।।२।७२॥ प्रतिनिधिर्मख्यसदृशोऽर्थः। प्रतिदानं गृहीतस्य प्रत्यर्पणम् , विशोधनमित्यर्थः । प्रतिना योगे यतः प्रतिनिधिर्यतश्च प्रतिदानम् , तद्वाचिनो गौणानाम्नः पश्चमी भवति । प्रद्युम्नो वासुदेवात्प्रति, अभयकुमारः श्रेणिकतः प्रति । सदृश इत्यर्थः। तिलेभ्यः प्रति माषानसौ प्रयच्छति । तिलान् गृहीत्वा माषान् ददातीत्यर्थः। - आख्यातर्युपयोगे ।२।२।७३॥ आख्यातोपदेशकः तत्र वर्तमानाद् गौणान्नाम्नः पञ्चमी भवति नियमपूर्वकविद्याग्रहणविषये । उपाध्यायादधीते । उपयोगे किम ? नटस्य शृणोति । उपयोगे तु स्यादेव ॥ गम्ययपः कर्माधारे ।२।२।७४॥ गम्यस्य यबन्तस्य यत्कर्माधारश्च तत्र वर्तमानाद् गौणान्नाम्नः पञ्चमी भवति । द्वितीयासप्तम्योरपवादः। प्रासादात् प्रेक्षते । आसनात् प्रेक्षते । प्रासादमारुह्य आसन उपविश्य प्रेक्षतः इत्यर्थः । यवन्तप्रयोगे तु न । प्रासादमारुह्य प्रेक्षते ॥ * प्रभृत्यन्यार्थदिक्शब्दवहिरारादितः।२।२।७५॥ प्रभृत्यदिक्शब्दैबहिरारादितर इत्येतैश्च शब्दैर्युक्ताद् गौणा
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy