SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ हैम नूतनलघु प्रक्रिया ३०१ सुकर ईषत्करः कटो भवता ॥ शास्त्रयुधिदृशिधृषिमृषातोऽनः | ५|३|१४१॥ कृच्छ्राकृच्छ्रार्थदुःस्वीषत्पूर्वेभ्यः शास्प्रभृतिभ्य आकारान्ते-भ्यश्च धातुभ्यो भावकर्मणोरर्थयोरनः प्रत्ययो भवति । दुःशासनः सुशासन ईषच्छासैनः, दुर्योधनः सुयोधनः, दुर्द-र्शनः, दुर्धर्षणः दुर्मर्षणः । दुरुत्थानं सूत्थानमीषदुत्थानम् । दुष्पानं सुपानमीषत्पानम् ॥ प्राक्काले |५|४|४७॥ परकालेन धात्वर्थेन तुल्य कर्तृके प्राक्कालेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे क्त्वा वा भवति । निषेधेऽलंखल्वोः क्त्वा |५|४ |४४ || निषेधे वर्त्त - मानयोरलं खलुशब्दयोरुपपदयोर्धातोः क्त्वा प्रत्ययो वा भवति । अलं कृत्वा, खलु कृत्वा । न कर्तव्यमित्यर्थः ॥ अनत्रः क्वो य | ३ |२| १५४ ॥ नञ्वर्जिताद् । || व्याप्यात् पूर्वपदाद् यदुत्तरपदं तदवयवस्य क्त्वा प्रत्ययस्य: यबादेशः स्यात् । परावरे |५|४|४५ || परे अवरे च गम्यमाने घातो:क्त्वा वा भवति । अतिक्रम्य नदीं पर्वत, नद्या पर इत्यर्थः । अप्राप्य नदीं पर्वतः । नद्या अर्वागित्यर्थः ॥ ३-तस्य चः शस्य छः । ४- उदः स्थेति सलोपः । ५ - निस् दुसिति षः । ६-अतिशब्देन गतिसमासः स्याद्युत्पत्तेः प्राग्रेव । एवमन्यत्रापि । । ७ - प्रोपसर्ग आप् धातुः, पूर्ववत्समासः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy