SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया औकारादेशो भवति । ओदपवादः । धौतः, धौतवान् ॥ प्रस्यैषैष्योढोढ्यूहे स्वरेण ।१।२।१४॥ प्रशब्दसम्ब-- न्धिनोऽवर्णस्य एष-एष्य-ऊढ-उढि-ऊह इत्येतेषु परेषु परेण स्वरेण सहितस्य स्थाने ऐदौतावादेशौ स्तः । प्रैषः, प्रेष्यः, प्रौढः, प्रौढिः, प्रौहः ॥ स्वैरस्वैर्यक्षौहिण्याम् ॥१॥२॥१५॥ खैर-स्वैरिन्अक्षौहिणीत्येतेषु शब्देषु अवर्णस्य परेण स्वरेण सहितस्य स्थाने ऐत् औत् इत्येतावादेशौ भवतः। स्वैरैः, स्वैरी, अक्षौहिणी ॥ ___ अनियोगे लुगेवे ।१।२।१६॥ नियोगो नियमः, तदभावोऽनियोगोऽनियमः, तद्विषये एवशब्दे परेऽवर्णस्यः लुकू स्यात् । इहेव तिष्ठ । नियोगे तु न । इहैव तिष्ठ मा गाः॥ __वौष्ठीतो समासे ।१।२।१७। ओष्ठशब्दे ओतुशब्दे च परेऽवर्णस्य लुग् वा स्यात्समासे । बिम्बोष्ठी, बिम्बौष्ठी। स्थूलोतुः, स्थूलौतुः॥ __ओमाङि ।१।२॥१८॥ अवर्णस्य ओमि आङादेशे च परे लग् भवति । अघोङ्कारः । आ ऊढाओढा, अघोढा । आ इहि एहि, उपेहि ॥ १-धा+ऊतः । २-स्व+ईरः । ___३-निमित्तनिमित्तिनावेकत्रैव समासे चेद् भवत इत्यर्थः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy