SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८६ हैमनूतनलघुप्रक्रिया पर्यन्तेषु इच्छार्थेषपपदेषु च सत्स्वेव विशेषणं बोध्यम् । शक्नोति पारयति वा भोक्तुम् । एवं धृष्णोतीत्यध्यवस्यति वा जानाति वेत्ति वा, आरभते प्रक्रमते वा, लभते विन्दते चा, सहते क्षमते वा, अर्हति प्राप्नोति वा, ग्लायति म्लायति वा, घटते युज्यते वा, अस्ति विद्यते वा, समर्थोऽलं प्रभवतीष्टे वा। समर्थाथै गम्यमानेऽपि, यथा-द्रष्टुं चक्षुः, योध्दु धनुः । इच्छति वष्टि वा भोक्तुम् ॥ ___ कालवेलासमये तुम्वाऽवसरे ।५।४।३॥ कालवेलासमयशब्देषूपपदेषु अवसरे गम्यमाने धातोस्तुम् प्रत्ययो वा भवति । कालो वेला समयो वा भोक्तुम् । पक्षे कालो भोजनस्य ॥ पदरुजविशस्पृशो घ ५॥३॥१६॥ एभ्यो धातुभ्यो घञ् प्रत्ययः कर्तरि भवति । पाँदः, रोगः, वेशः, स्पर्शः॥ भावाकोंः ।५।३।१८॥ भावे कर्तुवर्जिते कारके च वाच्ये धातोपञ् प्रत्ययो भवति ॥ घनि भावकरणे ।४।२॥५२॥ रब्जेरुपान्त्यनकारस्य १०-चज इति गः, प्रथमः । १-अः सृजिदृशोरित्यः, यजसजेति षः, टवर्गः । २-अध इति धः, तृतीयस्तृतीय इति दः । ३-णितीति वृद्धिः । ४-क्तेऽनिट इति गः, उपान्त्वगुणः । ५-उपान्त्यगुणः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy