________________
.२११
... mmm
हैमनूतनलघुप्रक्रिया व्याघ्राधे प्राणिनसोः।५।११५७॥ व्याघ्र आघा इत्येतौ शब्दौ जिघ्रतेर्यथासंख्यं प्राणिनि नासिकायां चार्थेडप्रत्ययान्तौ निपात्येते कर्तरि ॥ विविधं विशेषेण दूरादितोड़प्याजिघ्रतीति व्याघ्रः प्राणी । आजिघ्नतीत्यांना नासिका। शापवादः ॥
घ्राध्मापा दृशः शः ।५।१।५८॥ घ्रा-ध्मा-पाधे-दृश् एभ्यः शः प्रत्ययो भवति कर्तरि । जिघ्रतीति जिघ्रः । उद्धमतीत्युद्धमः। पिबतीति पिवः । जगज्जीवपिबं शिवं वदन् । उद्रयः । धे इति टिनिर्देशो ङ्यर्थ इति बृहद्वृत्तिः । उद्धयी, विधयी, उत्पश्यतीत्युत्पश्यः ॥
नृत्खनजः शिल्पिन्यकट् ।५।१।६४॥ नृतिखनिरञ्जिभ्यः शिल्पिनि कर्तर्यकट् प्रत्ययो भवति । शिल्पं कर्मकौशलम् । तद्वान् शिल्पी। नर्तकः, नते की खनकः, . खनकी । रजकः, रजकी ।।
गस्थकः ।५।१।६६॥ गायतेः शिल्पिनि कर्तरि थकः प्रत्ययो भवति । गाथकः, गायिका ॥
टनण ५११६७॥ गायतेः शिल्पिनि कर्तरि टनणू १-डित्यन्त्य इत्यालुक् । २-स्त्रीत्व लोकात् । ३-शे शवि जिघ्रादेशे लुगस्येति शव्यकारस्य शेऽकारस्य च लुक् । ४-शित्यात्वाभोवादयादेशः। ५-अकटि गुणे टित्त्वात् अगजेबेकणिति डीः, अस्य ङ्यामि त्यलुक् । ६-अकटानोश्चेति नलुक् । ७-आदित्यापि अस्यायत्तदितीत्वम् ।