________________
हैमनूतनलघुप्रक्रिया
२२७ द्वितीयायाः काम्यः ।३।४।२२॥ द्वितीयान्तान्नाम्न इच्छायामर्थे काम्यप्रत्ययो वा भवति ।।
ऐकायें ।३।२।८॥ ऐकार्यमैकपद्यम् , तन्निमित्तस्य स्यादेर्लुप् भवति । पुत्रमिच्छति पुत्रकाम्यति, अपुत्रकाम्यत् पुत्रकाम्यतु, पुत्रकाम्येत् , अपुत्रकाम्यीत्, पुत्रकाम्याश्चकार ।
व्यञ्जनात्पश्चमान्तस्थायाः सरूपे वा ॥१३॥४७॥ व्यञ्जनात्परस्य पञ्चमस्यान्तस्थायाश्च सरूपे वर्णे परे लुग वा भवति । पुत्रकाम्यात् , पुत्रकाम्यिता पुत्रकाम्यिष्यति, अपुत्रकाम्यिष्यत् ॥
अमाव्ययात्क्यन् च ।३।४।२३॥ अमकारान्तादनव्ययाच्च द्वितीयान्तान्नाम्न इच्छायामर्थे क्यन् प्रत्ययो वा भवति काम्यश्च ।।
क्यनि ।४।३।११२॥ क्यनि परेऽवर्णान्तस्य ईकारोऽन्तादेशो भवति । दीर्घत्वापवादः। पुत्रमिच्छति पुत्रीयति, अपुत्रीयत्, पुत्रीयतु, पुत्रीयेत् , अपुत्रीयीत् , पुत्रीयाश्चकार, पुत्रीय्यात् , पुत्रीयिता, पुत्रीयिष्यति, , अपुत्रीयिष्यत् , अमेत्युक्तेः-इदंकाम्यति, ऐदंकाम्यीत् ॥
आधाराच्चोपमानादाचारे ।३।४।२४॥ अमाव्ययादुपमानभूताद् द्वितीयान्ताद् आधाराच्चाचारेऽर्थे ३-शवि लुगस्येत्यलुक् । ४-अत इत्यलुक् । १-अत: इत्यलुक् , ततो यलुग्वा । २-लुगस्येत्यलुक् ।