SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ हैमनूतबल घुमक्रिया २११ ग्रो यहि | २|३|१०१ ॥ यङि प्रत्यये परे गिरते रेफस्य लकारादेशो भवति । गर्हितं गिलति जेगिल्यते, अजेगिलिष्ट । गर्हितं लुम्पति लोलुप्यते । न वृद्धिश्चाविति विल्लोपे | ४ | ३ | ११ || कितो ङितश्च लोपे सति अविति प्रत्यये गुणो वृद्धिश्च न भवतः । लोप हादर्शनमात्रम् । तेनाकारयकारलोपाभ्यां यङोऽदर्शने सति न गुणः । लोलुपतासे, लोलुपिष्यते । गर्हितं निषीदति निषाद्यते, न्यषासदिष्ट ॥ चरफलाम् ||४|१|५३ || चर्-फल- त्रिफला इत्येषां यङन्तानां द्वित्वे सति पूर्वस्य मुरन्तो भवति || ति चोपान्स्थातोऽनोदुः |४|१|५४ || यङन्तानां चर्-फल- त्रिफला इत्येतेषां तकारादौ च प्रत्यये उपान्त्यस्यात उरादेशो भवति, तस्य गुणो न भवति । गर्हितं चरति चचुर्यते, अचञ्चूरिष्ट, गर्हितं फलति पम्फुल्यते, अपम्फुलिष्ट || जपजभदशदहभञ्जपशः |४|१|५२ || जपू-भू-इदह-भञ्ज-पश् एषां यङन्तानां द्वित्वे सति पूर्वस्य मुरन्तो भवति । गर्हितं जपति जञ्जप्यते, अजञ्जपिष्ठ । गर्हितं तामितीयदेशे दिखे पूर्वस्य गुणो रो लः । ७-उ इत्वादेशे वादेनमिन इति दीर्घः । तौ मुम इति स्वानुस्वारानुनासिकौं । I
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy