SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघु प्रक्रिया १८९ " अशिष्यति, आशिष्यत् ॥ मुषश् स्तेये ॥ मुष्णाति, मुष्णीयात् मुष्णातु मुषाण, अमुष्णात्, अमोषीत्, मुमोष, मुख्यात्, मोषिता, मोषिष्यति, अमोषिष्यत् ॥ पुषश् पुष्टौ ॥ मुष्णातिवत् ॥ ज्ञांश अवबोधने ॥ जानाति, जानीयात्, जानातु जानीहि जानीतात्, अजानात्, अज्ञासीत् जज्ञौ, जज्ञिथ, जज्ञाथ, ज्ञेयाँत, ज्ञायात् ज्ञाता, ज्ञास्यति, अज्ञास्यत् ॥ इति क्रथादयः ॥ ॥ अथ स्वार्थिकायादिप्रत्ययान्ताः || " " || गुपौ रक्षणे ॥ गुपौधूप विच्छिपणिपनेरायः | ३ | ४|१ || गुप्-धूपू - विच्छ्र - पण् - पन्-एभ्यो धातुभ्यः पर आयप्रत्ययो भवति स्वार्थे । शबू । गोपायति, गोपायेत्, गोपायतु, अगोपायत् || धूप सन्तापे । पणि व्यवहारे स्तुतौ । पन च ॥ धूपायति, पणांयति, पनायति ॥ कमूह कान्तौ ॥ कान्तिरिहेच्छा ॥ कमेर्णिङ्ग | ३|४|२|| कमेर्धातोः स्वार्थे णिङ् प्रत्ययो भवति । कामयते, कामयेत, कामयतास् । अकामयत ॥ ऋत घृणागतिस्पर्धेषु ॥ ऋतेर्डीयः | ३|४|३|| ऋत् इत्यस्माद् धातो: ६ - जाज्ञेति जादेशः । ७ - संयोगादेर्वेत्येः । ८ - घोरुपान्त्यस्येति गुणः, लुगस्येत्यलुक् । ९-पणिपनी आयप्रत्ययान्तोः परस्मैपदिनौ । १ति वृद्धिः शवि गुणायादेशौ ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy