SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८४ हैमनूतनलघुप्रक्रिया तनोषि, तन्वः, तनुका, तनुयात् , तनु, तनुतात्, तनवानि, अतनोत् , अतौनीत् , अतनीत् , ततान, तेनतुः, तेनिथ, तन्यास्ताम् , तनितासि, तनिष्यति, अतनिष्यत् । तनुते, तन्वते, तन्वीत, तनुताम् , तनबै, अतनुत ।। तन्भ्यो वा तथासिन्णोश्च ।४।३।६८॥ तनादेर्गणाणात्परस्य सिचस्ते थासि च प्रत्यये परे लुप् वा भवति, तत्संनियोगे च नकारस्य णकारस्य च लुप् भवति, न चेत् । अतत, अतनिष्ट, अतनिषाताम् , अतथाः, अतनिष्ठाः, तेने, तनिषीष्ट, तनितासे, तनिष्यते, अतनिष्यत ॥ षणूयी दाने ॥ षः सः, निमित्ताभावे णकारस्याभावान्नः । सनोति, सनुते, असानीत् , असनीत् । सनस्तत्रावा ।४।३।६९॥ सनोतेर्नलुपि सत्यामन्तस्य वा आकारो भवति । असात, असत, असनिष्ट, असाथाः, असथाः, असनिष्ठाः, असनिषाथाम् , असनिध्वम् , असनिड्ढवम् , ससान, सेनतुः, सेने, सेनाते, सन्यात् , सनिषीष्ट, सनितासि, सनितासे, सनिष्यति, सनिष्यते, असनिष्यत्, असनिष्यत । क्षणु क्षिणूयी हिंसायाम् ॥ अक्षणीत्, चक्षाण, चक्षणतुः । शेषं तनोतिक्त् । एवं क्षिणोतीत्याद्यपि । . ११-वम्यविति वा । १.२-असंयोगादोः । १३-व्यञ्जनादेर्वोपान्त्यस्य । १४-अनत इत्यदादेशः, इवर्णादेरिति वः । १५-नश्वीति बृद्धिनिषेधः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy