________________
१६६ हैमनूतनलघुप्रक्रिया
नशः शः ।२।३।३८॥ अदुरुपसर्गान्तःस्थाद् रघुवर्णात्परस्य नशेः शकारान्तस्य सम्बन्धिनो नस्य णो भवति । प्रणश्यति । शः किम् ? प्रनक्ष्यति। प्रनष्टः । नश्येत्, नश्यतु, अनश्यत् ॥
नशेर्ने श् वाऽङि ।४।३।१०२॥ नशेरङि परे नेश् इत्ययमादेशो वा भवति । अनेशत्, अनंशत्, ननाश, नेशतुः, नेशिथ, नश्यात्, नशिता ।
नशो धुटि ।४।४।११०॥ नश्यतेः स्वरात्परो धुडादौ प्रत्यये परे नोन्तो भवति । नंष्टा, नशिष्यति, नक्ष्यति, अनशिष्यत्, अनझ्यत् ॥ श्लिषंच आलिङ्गने । श्लिष्यति, श्लिष्येत् , श्लिष्यतु, अश्लिप्यत् ॥
श्लिषः ।३।४।५६॥ श्लिषो धातोरनिटोऽद्यतन्यां सक् प्रत्ययो भवति । अङपवादः । अश्लिक्षत् , अश्लिक्षन् ।
नाऽसत्वाश्लेषे ।३।४।५७॥ श्लिषो धातोरप्राण्याश्लेषे वर्तमानात्सक् प्रत्ययो न भवति । उपाश्लिषेजतु च काष्ठं च। शिश्लेष, श्लिष्यात् , श्लेष्टा, श्लेक्ष्यति, अश्लेक्ष्यत् ।। असूचू क्षेपणे ॥ अस्यति, अस्येत् , अस्यतु,
१-दिदित्यङ । २-औदित्त्वाद्वेट् । ३-यजसृजेति षः । षढोरिति कः,
म्नामिति पञ्चमः, नाम्यन्तस्थेति षः । ४-स्वरेऽतः । ५-लदिदित्यङ् ।