SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ हेमनूतनलघुप्रक्रिया धयतात् , द्, धयतु । अधयत् , द् ॥ आसन्ध्यक्षरस्थ ।४।२।१॥ सन्ध्यक्षरान्तस्य धातो. राकारान्तादेशो भवति निनिमित्तः ॥ न शिति ।४।२।२॥ धातोः सन्ध्यक्षरान्तस्य शिति प्रत्यये विषयभूते आकारो न भवति ॥ ___ट्धेश्वेर्वा ।३।४।५९॥ धेश्विभ्यां कर्त्तयद्यतन्यां छप्रत्ययो वा भवति । अदधत् ,' द् । अदधन् । अदधम् । अदधाम । अधात् , द्, । अधुः । अधासीत् , द् । अधासिषुः अधासिष्टम् । अधासिष्म । दधौ, दधुः । दधिथ । दधिम । धेयात् , द्। धाता, धास्यति, अधास्यत् , द् ॥ गैं गाने । गायति, गायेत् , द् । गायतात् , द्, गायतु । अगायत् , द् । अगासीत् , द्। अगासुः । जगौ, जगतुः, जगिथ, जगाथ । जगिम । गेयात्, दु । गाता, गास्यति, अगास्यत् , दु, ॥ ध्य चिन्तायाम् । ध्यायति, ध्यायेत् , द् । ध्यायतात् , द्, ध्यायतु । अध्यायत् , ' । अध्यासीत् , दु । दक्ष्यौ, दध्यतुः, दध्यिथ, दध्याय । दध्यिम । ध्येयात् , द् । १-आत्वे ङ प्रत्यये द्वित्वे हृस्वत्वे द्वितीयेति तृतीयत्वे इडेदित्यालुक् । २-लुगस्य । ३-लुगस्य । ४ मव्यस्याः । ५-विकल्पे दधेब्रेति सिज्लुक् । ६-सिज्लुम्विकल्पे यमिरमिनमि० । ७-कित्त्वे आलुक् । ८-दासंज्ञायां गापेत्येत् । ९-आत्वे इनिषेधे यो परमि० । १०-गापेत्येत् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy