________________
30
सिद्धहेमलघुवृत्तौ [प्रथमाध्यायस्य वर्णस्य लुक्. स्यात् । इहेव तिष्ठ, अद्येव गच्छ । नियोगे तु, इहैव तिष्ठ मा गाः ॥ वौष्ठौती समासे ॥१७॥ ओष्ठौत्वोः परयोः समासेऽ वर्णस्य लुग्वा स्यात् । बिम्बोष्ठी, बिम्बौष्ठी, स्थूलोतुः, स्थूलौतुः । समास इति किम् ? हे पुत्रौष्ठं पश्य ।। ओमाङि ॥१८॥ अवर्णस्य ओमि आङादेशे च परे लुक् स्यात् । अद्योम् , सोम्, आ ऊढा ओढा, अद्योढा, सोढा ॥ उपसर्गस्यानिणेधेदोति ॥१९॥ उपसर्गावर्णस्य इणेधि वर्जे एदादावोदादौ च धातौ परे लुक् स्यात् । निवृत्तौ, पञ्चमी हि, इहेव तिष्ठ, अन्यत्र वा गच्छ यथेच्छं । कुरु, इत्यनवधारणमत्र प्रतीयते, इहैव तिष्ठेत्युक्तौ त्वन्यत्र मा गाः, इत्यत्रावस्थानस्यैव निर्धारणं प्रतीयत इति । अस्मिन्नहनि अद्य एव । गम् , पञ्चमी हिं, मा पूर्व इंण्क् गतौ, अद्यतनी सिच् ।। वा, ओष्ठश्च ओतुश्च ओष्ठौतुः तस्मिन् , समासे । लुगिति वर्तते, एवमग्रेऽपि । एकवचनादेकस्मिन्नेव समासे, न समासान्तरे, अत एव वृषलसुतौष्ठवणः इत्यादौ नाकारलोपः । बिम्बाकारौ ओष्ठौ यस्याः सा 'नासिकोदरौष्ठे 'ति डीः । स्थूलश्वासौ ओतुश्च, हे पुत्र, आमन्त्र्ये । अवति रक्षति क्षुद्रोपद्रवेभ्य इति ओष्ठः ॥ ओम् च आङ् च तस्मिन् । अद्य आ ऊढा, अत्र प्रथमं दी ततः ‘अवर्णस्ये 'ति गुणे अद्योढेतीष्टसिद्धौ आग्रहणमाङादेशार्थमित्याशयेनाहआङादेशे चेति । अद्य ओम् , सा ओम्, इति हस्वदीर्घावादायोदाहरण द्वयम् । आ ऊढा ओढा इति प्रथमं प्रसाध्य ततः अद्य
ओढा, सा ओढा, इत्याङादेशस्योदाहरणद्वयम् ॥ उपसर्गस्य, इण् च एध् च इणे , न इणे अनिणेध, एच ओच्च एदोत्, . अनिणे चासौ एदोच्च, तस्मिन् । प्र, परा, इलग प्रेरणे, : चुरादिभ्यो णिच् , ' प्र एलयति, परा एलयति, अत्र वृद्धिं बाधित्वाऽ. नेनावर्णलोपः । प्र, परा, उपू दाहे, तिव् , शव् । उप इंग्क् , तिव् ।