________________
१६
सिद्धमलघुवृत्तौ
[ प्रथमाध्यायस्य
वो रक्षतु, लुनीहि३ पृथुकाँश्च खाद, शीलं ते स्वम् ॥ अधातुविभक्तिवाक्यमर्थवन्नाम ||२७|| धातुविभक्त्यन्तवाक्यवज्र्ज्जमर्थवच्छब्दरूपं नाम स्यात् । वृक्षः, स्वः, धवश्च । अधातुविभक्तिवाक्यतयोरप्रयोगात्, अप्राप्ते हि अर्थवदिति न्यायात् ॥ दधाति क्रियार्थत्वमिति धातुः, धातुश्च विभक्तिश्च वाक्यश्च धातुविभक्तिवाक्यं ततो नञ्समासः । क्रं गतौ, अर्थते शिष्टेनेत्यर्थः । अभिधेयद्योत्यलक्षणोऽर्थोऽस्यास्तीत्यर्थवन्नाम ॥ विभक्त्यन्तेति, 'प्रत्ययः प्रकृत्यादेरिति परिभाषासूत्रेण विभक्त्यन्तस्य लाभ: । अर्थवच्छब्दरूपमिति, अर्थवदिति विशेषणुत्वेन स्वानुगुणं विशेष्यमध्याहृतं शब्दरूपमिति । अर्थश्च द्वेधा, अभिधेयरूपः द्योत्यरूपश्च । अभिधेयश्च स्वार्थद्रव्यलिङ्गसङ्ख्याशक्तिभेदात् पञ्चधा, द्योत्यश्च समुच्चयादिः, एतौ द्वौ शब्दे वाच्यतया स्त इत्यर्थवच्छब्दरूपं विज्ञेयम् । ओवश्वौत् छेदने, वृश्चति काष्ठार्थिभिरिति वृक्षः । हनंकू हिंसागत्योः, ह्यस्तनी दिव्, ' अड्धातोः ' अडागमः व्यञ्जनाद्देः सश्चे 'ति दिव् लोपः । अत्र नामत्वाऽभावा ' नाम्नो नो' इति न लोपो न । यद्यप्यहन् इत्यश्य विभक्त्यन्तत्वान्न नामत्वमिति धातुवर्जनं व्यर्थ; तथापि हन्तीत्यत्र विभक्तिपूर्वस्य हनो नामत्वे 'नाम सियूव्यञ्जने ' इति पदत्वे च न लोपः स्यात्तद्व्यावृत्तये धातुवर्जनम् । वृक्षानिति, अत्र नामत्वे नलोपः स्यात्, न च ' शसोडता सच पुंसि' इति नकारविधानसामर्थ्यान्नाऽत्र नलोप इति विभक्तयन्तवर्जनं व्यर्थमिति वाच्यम्, कांस्कानित्यादौ नकारविधानस्य चरितार्थत्वेन नलोपस्याऽत्र दुर्वारत्वात् । विभक्त्यन्तवर्जनाश्चाऽऽबादि प्रत्ययान्तानां नामसंज्ञा स्यादेव । राधं साधं संसिद्धौ, सानोति रत्नत्रयमिति साधुः घर्मं । श्रृंग व्यक्तायां वाचि साधुर्धर्मं
6
·
नः
#
व्रते, इत्यादिवाक्यस्य यद्यपि विभचयन्तत्वान्न नामसंज्ञेति शङ्का
.