________________
सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य ॥२४॥ एतानि वति परे पदं न स्युः । मनुष्वत् , नभस्वत् , अङ्गिरस्वत् ॥ वृत्त्यन्तोऽसषे ॥२५॥ परार्थाभिधायी समासादिवृत्तिः, इति प्राप्तौ प्रतिषेधोऽयम् ॥ मनुश्च नभश्च अङ्गिराश्च मनुर्नभोऽङ्गिरः वति सप्तमी ॥ मनुरिव मनुष्वत् , नभ इव नभस्वत् , अङ्गिरा इवाङ्गिरस्वत् , ' स्यादेरिवे' इति वत्, ‘नाम्यन्तस्थे 'ति वत्वम् । अत्र पदत्वाभावान्न 'सोरुः', पदमध्यत्वात्तु मनुष्वदित्यत्र षत्वं स्यात् ॥ वृतूङ् वर्तने, वर्तनं वृत्तिः, स्त्रियां क्तिः, वर्तनन्तु अवयवार्थाऽपेभया परस्य समुदायार्थस्य प्रतिपादनम् । यद्वा वर्तन्ते स्वार्थापरित्यागेन पदान्यत्रेति आधारे को वृत्तिः पदसमुदायादिरूपा । सा त्रिधा समासवृत्तिः, तद्धितान्तवृत्तिः, नामधातुवृत्तिश्चेति । यथाराजपुरुषः, औपगवः, पुत्रकाम्यतीत्यादि । वृत्तेरन्तो वृत्त्यन्तः, सस्य षः सपः, न सषः असषः तस्मिन् ॥ परार्थाभिधायीति, अवयवार्थापेक्ष्याऽन्यस्य समुदायार्थस्याभिधायकम् , यद्धटकैः पदैरितरार्थीन्वितस्वार्थस्यैवोपस्थानं सा वृत्तिरिति यावत् । परमदिवाविति, अत्र परमदिव् औ, इति दशायां औ विभक्तेवृत्त्यघटकत्वेन परमदिव् इत्यस्य वृत्त्यन्तत्वं बोध्यम् । परमा द्यौर्ययोस्तौ परमदिवौ, 'परतः स्त्री पुंवत्' इति पुंवद्भावः। दण्डाः सन्त्येषामिति दण्डिनः। बहवो दण्डिनो ययोस्तौ, यद्वा ईषदूनौ दण्डिनौ बहुदण्डिनौ, 'नाम्नः प्राग्बहुर्वेति' पूर्व बहुप्रत्ययः । किंचीत् क्षरणे, सिञ्चतीति सेक्, दध्नः सेक् दधिसेक् । अत्र षत्वे कर्तव्येऽनेन। सूत्रेण पदसंज्ञायां सकारस्य पदादित्वेन 'नाम्यन्तस्थे'त्यनेन षत्वाभावः प्रसिध्यति, अन्तर्वतिन्या विभक्तेः . स्थानिवद्भावेन पदत्वं प्राप्तमनेन निषिध्यते । वृत्तिग्रहणं किम् ? चैत्र. स्य कर्म । अन्तग्रहणं किम् , राजवाक् । वाक्त्वक्स्च इति त्रयाणां वृत्तौ न द्वयोः प्रथगू वृत्तिरिति मध्यमस्य निषेधो न भवति । अथ वाक्त्वचमित्यत्र समासान्ते अप्रत्यये सति वृत्त्य तत्त्वाभा.