________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
३७३
-
यूना सहोत्तौ वृद्धवाच्येकः शिष्यते तन्मात्रभेदे, न चेत् प्रकृति - भेदोऽर्थभेदो वाऽन्यः स्यात् । गार्ग्यश्च गार्ग्यायणश्च गाग्र्यौ । वृद्ध इति किम् ? गर्गगार्ग्यायणौ । यूनेति किम् ? गार्ग्यगर्गौ | तन्मामेद इति किम् ? गार्ग्यवात्स्यायनौ || स्त्री पुंवच ।। १२५ ।। वृद्धस्त्रीवाची यूना सहोक्तौ एकः शिष्यते, पुलिङ्गश्चायम्, तन्मात्रमेदे | गार्गी च गाम्ययणश्च गार्ग्यौ, गार्गी च गार्ग्यायणौ च गर्गान् ॥ पुरुषः स्त्रिया ।। १२६ ।। पुरुषशब्दः प्राणिनि पुंसि रूढः स्त्रीवाचिना सहोक्तौ पुरुषः एकः शिष्यते, स्त्रीपुरुषमात्र भेदश्चेत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । पुरुष इति किम् ? तीरं नदनदीपतेः । तन्मात्र
--
1
तावेव तन्मात्रम्, तच्चासौ भेदश्च तस्मिन् ॥ व्यवहितमपत्यं पौत्रप्रभृति शास्त्रे वृद्ध उच्यते । युवन्शब्दो जीव द्वंश्यादिरुच्यते । गर्गस्यापत्यं वृद्धं गार्ग्य: गर्गस्यापत्यं युवा गाययणः । गार्ग्यच गार्ग्यायणश्च गाग्यो । अत्र वृद्धयुवप्रत्ययकृत एव भेदो वर्तते, तथा तन्मात्रकृतार्थभेद एव वर्तते, नान्यः कश्चन प्रकृतिभेदोऽर्थभेदो वा । गर्गश्च गार्ग्यायणश्च गगंगा
।
1
यणौ, अत्र वृद्धप्रत्ययान्तस्याभावान्नैकशेषः । गार्ग्यवात्स्यायनावित्यत्र तु प्रकृत्यंशे वैरूप्यमस्ति, अतो नैकशेषः ॥ स्त्री पुंवत् च ॥ पूर्वसूत्रमनुवर्तते । खीति प्रथमान्तत्वात् प्रथमान्तेन वृद्धशब्देन सम्बध्यते । पुल्लिङ्गश्चायमिति, स्त्र्यर्थः पुमर्थो भवतीत्यर्थः । गार्ग्याविति गार्गीशब्दस्य वृद्धस्त्रीवाचिन एकशेषे सति पुंवत्त्वे च रूपम् । गाग्र्गी च गार्ग्यायणौ च गर्गाः, अत्र पुंवद्भावात्ङी निवृत्तौ वृद्धप्रत्ययस्य यत्रो बहुवचने लुप्, तथा च गार्ग्यः, गायों, गर्गाः, गार्ग्य, गाग्यौ, गर्गानित्येवं रूपाणि बोध्यानि ॥ पुरुषः स्त्रिया ॥ तन्मात्रभेद इत्यनुवर्तते, एवमग्रेऽपि । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणावित्यादौ जातिसामान्यविवक्षायामविवक्षित विशेषत्वात् 'सामानामर्थेने 'त्येकशेषस्सिद्ध्यति । भेदविवक्षायान्तु द्वन्द्वः प्राप्नोतीति वचनम् । नद नदी
1