SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । ३६९ किम् ? वीप्सा सहोक्तौ मा भूत्, ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ! प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् ॥ समानामर्थेनैकः शेषः ॥ ११८ ॥ अर्थेन समानां समानार्थानां सहोत्तौ गम्यायाननु समुच्चयान्वचययोः सामर्थ्याभावादेव समासो न भविष्यति, किं सहोकिग्रहणेन, परस्परानपेक्षानामनियतक्रमयौगपद्यानां क्रियाकारकादीनां हि समुच्चयो दृश्यते, यथा गामश्वमित्यत्र नयनक्रियायां गवादीनाम्, अन्वाचयेऽपि गौणस्य प्रधानं प्रत्यपेक्षा, न प्रधानस्य गौणं प्रतीति सामर्थ्याभाव इति चेन्न, क्रियाद्वारा समुच्चयान्वाचययोरपि सामर्थ्यसम्भवात् कारकाणां हि क्रिययाऽन्वय इत्येकक्रियान्वयित्वलक्षणं सामर्थ्यमस्त्येव । परस्परमपेक्षाया अभावेऽपि न सा सामर्थ्यविघातिनी, अतः सहोत्त्यभावादेवानयोः समासाभावो वाच्य इति । पुन्यप्रोधावितीतरेतरयोगस्योदाहरणम् । वाक् च त्वक्चेति समाहारस्योदाहरणम्, 'चवर्गदषह ' इत्यत्प्रत्ययः । ग्रामो ग्रामो रमणीयः, अत्र वीप्सायां सहोतिसद्भावेऽपि चार्थाभावात् द्वन्द्वाभावः । लक्षश्च न्यग्रोधश्च वीक्ष्यतामिति, अत्र चार्थः समुच्चयः, तत्त्वञ्चैकस्य क्रियान्वयोत्तरमपरस्य क्रियावाचकपदाऽऽवृत्त्यान्वयाद्भवतीत्येक क्रियान्वयित्वरूप सहोत्त्यभावान्न द्वन्द्वः । अन्वाचये चैकस्याप्रधानत्वादेव न सहोक्तिः । द्वन्द्वत्वञ्च पदजन्यप्रतिपत्तिविषयभेदबोधकत्वे सति समानविभक्तिमत्पदप्रकृतिकत्वे सति प्राधान्येन सर्वपदार्थबोधकत्वम्, प्राधान्यचात्र स्वघटकपदार्थांशे विशेषणतानापन्नत्वं तेन परस्परं विशेष्यत्वाभावेऽपि नासम्भवः, स च द्वन्द्वो द्विविधः, इतरेतरः समाहारश्चेति । अगृहीतविशेषद्वित्वादिसङ्ख्याविशिष्टनामार्थबोधकत्वमितरेतरत्वम् । नामार्थवृत्तितादृशसा बोधकत्वं समाहारत्वमित्यपि विज्ञेयम् ॥ समानाम्, अर्थेन, एकः, ४७ -
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy