________________
प्रथमपादः ] अवरिपरिष्कारसहितायाम् । ३६५ अजात्येति किम् ! भोज्य ओदनः ॥ कुमारः श्रमणादिना ॥ ११५ ॥ कुमारेत्येकार्थं श्रमणादिना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कुमारश्रमणा, कुमारप्रव्रजिता ॥ मयूरव्यंसकेत्यादयः ॥ ११६ ॥ एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः, कम्बोजमुण्डः, एहीडं कर्म, अनीतपिबता क्रिया, कुरुकटो वक्ता, गतप्रत्या
धार्थ वचनम् ॥ कुमारः, श्रमण आदिर्यस्य तेन ॥ कुमारी चासौ श्रमणा च कुमारश्रमणा । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायेन श्रमणादौ ये स्त्रीलिङ्गास्तैस्सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते, अन्यैस्तूभयलिङ्गः समस्यते । अनेनैव न्यायेन स्त्रीलिङ्गेऽपि समासस्य सिद्धत्वात् श्रमणादौ स्त्रीलिङ्गानां पाठः, पुल्लिङ्गैः पूर्वनिपाते कामचार इति बोधनाय ।। मयूरव्यंसक इति आदिर्येषान्ते । विगतौ अंसौ अस्य व्यंसः तत्तुल्यो व्यंसकः, व्यंसयति छलयतीति वा व्यंसकः, व्यंसकश्चासौ मयूरश्च मयूरव्यंसकः, विशेष्यस्यापि मयूरस्य पूर्वनिपातः । मुण्डश्चासौ कम्बोजश्च, जातिशब्दस्य कम्बोजस्य पूर्वनिपातः । एहि ईड इति यस्मिन् कर्मणि तदेहीडम् । अनीत पिबतेत्येवं सन्ततं यत्राभिधीयते साऽनीतपिबता, क्रियारूपस्यान्यपदार्थस्य प्राधान्यात्स्त्रीत्वादाप् । कुरु कटमिति कश्चिदाह स कुरुकटो वक्ता । गतञ्च तत् प्रत्यागतश्च गतप्रत्यागतम् । महान् क्रयः, अल्पः क्रयिका, क्रयावयवयोगात् क्रयः, क्रयिकावयवयोगात् क्रयिका, क्रयश्चासौ क्रयिका च क्रयक्रयिका । शाकप्रियः पार्थिवः शाकपार्थिवः । तृतीयो भागः त्रिभागः । सर्वेषां श्वेततरः सर्वश्वेतः । इत्येव मविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः, यच्चेह लक्षणेऽनुपपन्नं तत्सर्व निपातनात् सिद्धम् । इति शब्दः स्वरूपावधारणार्थः । तेन मयूरव्यंसकादीनां समासान्तरे प्रवेशः । बहुवचनमाकृति