________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
३५९
नुक्तौ समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । पुरुषव्याघ्रः, श्वसिंही । साम्यानुक्ताविति किम् ? पुरुषव्याघ्रः शूरः इति मा भूत् ॥ पूर्वापरप्रथमचरमजघन्यसमानमध्य मध्यमवीरम् ॥ १०३ ॥ एतान्येकार्थानि नाम्ना परेण, समासस्तत्पुरुषः कर्म्मधारयश्च स्युः । पूर्वइव व्याघ्रः पुरुषश्चासौ व्याघ्रश्च पुरुषव्याघ्रः, यदा व्याघ्रशब्दः 'शौर्यादेः पुरुषार्थ एव वर्त्तते तदैकार्थत्वे सति समासेन भाव्यम्, तत्र प्रकरणादिना यदा नियतसाधारणगुणज्ञानं तदा साधारणधर्माप्रयोगे सति समासः, यदा तु गुणान्तरव्यावृत्तये विशिष्टसाधारणगुणप्रतिपादकशब्दप्रयोगः क्रियते, पुरुषो व्याघ्र इव शूर तदा न समासः, साम्यानुक्तावित्युक्तत्वात् उपमानभूतशूरव्याघ्राऽभिन्नः शूरः पुरुष उपमेय इति बोधः । न च साम्यानुक्ताविति शक्यमवक्तुम् | पुरुषो व्याघ्न इव शूर इत्यादौ शूरसापेक्षत्वेन व्याघ्रपदस्यासामर्थ्यादेव समासाभावादिति वाच्यम्, साम्यानुक्तावित्यनेनैव प्रतिषेधेन 'प्रधानस्य तु सापेक्षत्वेऽपि समासो भवती'ति ज्ञापनात् । यस्य क्रियया सह सामानाधिकरण्येन प्रयोगस्तत्प्रधानं यथा राजपुरुषोऽस्ति दर्शनीय इत्यादौ समासात्प्रागवस्थायां पुरुषशब्दस्य स्वविशेषणदर्शनीयशब्दसापेक्षत्वेऽपि राजशब्देन सह तत्पुरुषः, य एव हि पुरुषत्वश्याश्रयः, स एवास्तीति क्रियाया अपीति क्रियया सह सामानाधिकरण्यप्रयोगेण पुरुषशब्दस्य प्रधानत्वात् । शुंनी चासौ सिंही च श्वसिंही, कर्मधारयानन्तरं पुंवद्भावः । उपमानं सामान्यैरेवेति पूर्वोक्तावधारणेन विशेषणसमासे प्रतिषिद्धे समासविधानार्थमिदं वचनम् ॥ पूर्वश्च अपरश्च प्रथमश्च चरमश्च जघन्यश्च समानश्च मध्यश्च मध्यमश्च वीरश्च ॥ अनुवृत्तिः, पूर्ववत् । पूर्वश्वासौ पुरुषश्च पूर्वपुरुषः । दिग्वाचकत्वेऽपि सूत्रोपादानसामर्थ्यात्समासः, न तु 'दिगधिकमित्यनेन निषेधः । ' विशेषणं विशेष्येणे' त्यादिनैव सिद्धे 'स्पर्द्धे परमि'ति