________________
३४८
सिद्धहेमलघुवृत्ती (तृतीयाध्यायस्य स्यात् । ब्राह्मणयाजकः, गुरुपूजकः ॥ पत्तिरथी गणकेन ॥७९॥ एतौ षष्ठ्यन्तौ गणकेन समासस्तत्पुरुषः स्याताम् । पत्तिगणकः, रथगणकः । पत्तिरथाविति किम् ! धनस्य गणकः ॥ सर्वपश्चादादयः ॥ ८०॥ एते षष्ठीतत्पुरुषाः साधवः स्युः । सर्वपश्चात् , सर्वचिरम् ।। अकेन क्रीडाऽऽजीवे ॥ ८१ ॥ षष्ठ्यन्तमकप्रत्ययान्तेन क्रीडाजीविकयोर्गम्ययोः समासस्तत्पुरुषः स्यात् । उद्दालकपुष्पभञ्जिका, नखलेखकः । क्रीडाजीव इति किम् ! पयसः पायकः ॥ न कर्त्तरि तुल्यार्थैरिति या षष्ठी सा न शैषिकी, अतः समासाप्राप्तौ विध्यर्थश्च । तेन गुरुसदृशो गुरुसम इत्यादि सिद्धम् ॥ पत्तिश्च रथश्च, गणकेन ॥ षष्ठीति वर्तते । एवमले। पत्तीनां गणकः पत्तिगणकः, 'कर्मजा तृचा चेति प्राप्ते वचनम्॥ सर्वपश्चात् आदिर्थेषान्ते॥ सर्वेषां पश्चात्सर्वपश्चात् । यदा सम्बन्धे षष्ठी तदा 'तृप्तार्थपूरणेति निषेधे प्राप्ते वचनम् , यदा 'रिरिष्टादिति षष्ठी तदाऽप्राप्ते समासः । बहुवचनं शिष्टप्रयोगानुसरणार्थम् ।। अकेन, क्रीडा च आजीवश्च तस्मिन् ॥ अकेनेति नाम्नेत्यस्य विशेषणत्वेन तदन्तविधिः । 'कर्मजा तृचा चे'त्यस्यापवादः । भनकीति भञ्जिका, उद्दालकपुष्पाणां भञ्जिकेति विग्रहे 'कृतीति षष्ठीसमासः प्राप्तः ततः 'कर्मजा तृचा चेति निषेधः प्राप्तः, तदपवादेनाऽनेन समासः । क्रीडाविशेषस्य संज्ञेयम् । वाक्येन संज्ञाऽनवगमान्नित्यसमासः । यदा तूहालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहः क्रियते तदा निषेधाभावे ‘कृती' त्यनेनैव सिद्धत्वादकिञ्चित्करमिदं सूत्रं स्यात् । यद्यपि क्रीडाया भङ्गे कर्तृत्वं न सम्भवति किन्तु क्रीडाकारिणामेव तथाप्यस्यां क्रीडायां भञ्जनक्रियाकरणादुपचारात्साऽपि की भण्यते । नखानां लेखको नखलेखको नापित इत्यर्थः । नखलेखनादिरस्याऽऽजीवो गम्यते, तत्राऽपि नित्यसमास एव, वाक्यात्तदनवगमात्।। न, कर्तरि ॥ अकेनेति सम्बध्यते ।