________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
३२७
सकर्मकः ॥ दिशो रूढ्याऽन्तराले ॥ २५ ॥ रूया दिग्वाचि नाम रूयैव दिग्वाचिना सहान्तरालेऽन्यपदार्थे वाच्ये समासो बहुव्रीहिः स्यात् । दक्षिणपूर्वा दिक् । रूढ्येति किम् ? ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति ॥ तत्राऽऽदायमिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ॥ २६ ॥ तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियाव्यतिहारे, तेनेति तृतीयातं, मिथः प्रहृत्येति क्रियाव्यतिहारे समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् । केशाकेशि, दण्डादण्डि । तत्रेति तेनेति च किम् ? केशांश्च केशांश्च गृहीत्वा मुखञ्च मुखञ्च प्रहृत्य कृतं युद्धम् । आदातुल्ययोगः । प्रथमान्ताऽन्यपदार्थार्थ आरम्भः । सह पुत्रेण य आगतः स सपुत्र इति विग्रहात् । बहुलाधिकाराद् विद्यमानार्थे कचिन्न भवति, यथा सहैव दशभिः पुत्रैर्भारं वहति गर्दभी, पुत्राणां विद्य. मानत्वेऽपीत्यर्थः । दिशः षष्ठी, रूढ्या, अन्तराले || अन्तरालभूतोऽन्यपदार्थोऽपि दिगेव प्रत्यासत्तेः, अत एवाऽस्य नित्यस्त्रीलिङ्गता । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दिग्दक्षिणपूर्वा, दिशि वर्तमाना नित्यस्त्रीलिङ्गा एवेति ' परतः स्त्री पुंवदि 'त्यप्राप्ते ' सर्वांदयोऽस्यादाविति पुंवद्भावः । इन्द्रो देवताऽस्या दिश इत्यैन्द्री, कुबेरो देवताऽस्या इति कौबेरी, एतौ शब्दौ यौगिकौ, अतो न समासः, किन्तु वाक्यमेव ।। तत्र आदाय मिथस्तेन प्रहृत्येत्येतेषां विभक्तीनां सूत्रत्वाल्लोपः, समानं रूपं यस्य तेन, युद्धे, अनव्ययमव्ययं भवतीत्यव्ययीभावः || अन्यार्थ इति सम्बध्यते । क्रियाव्यतिहारः परस्परग्रहणादिः । केशेषु केशेषु च मिथो गृहीत्वा कृतं युद्धमिति केशाकेशि । अत्र क्त्वाप्रत्ययः करणादिक्रियामादाय ग्रहणानन्तरं युद्धस्याचरणात् । ग्रहणकर्मत्वच प्रत्यासत्या केशादिविशिष्टपुरुषयोरेव, परस्पर ग्रहणादिरूपः । क्रियाव्यतिहारः समुदायशक्यो युद्धादिरूप