SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३२४ सिरहेमलघुवृत्ती [ तृतीयाध्यायस्य अर्द्धपञ्चमविंशाः ॥ अव्ययम् ॥ २१ ॥ अव्ययं नाम समानाम्नैकायें समस्यते, द्वितीयाद्यन्यार्थे सङ्ख्येये वाच्ये, स च बहुव्रीहिः । न्यायस्य प्रायिकत्वाद् दशनशब्दः सङ्ख्यायां वर्तते, अत एव दशत्वमिति पर्यायः प्रदर्शितः, दशेत्यत्र बहुवचनन्तु सध्येयेन सहाऽभेदात्। सध्येयवाचिदशन्शब्देन विग्रहेऽनेन समासो न स्यात्, सङ्ख्यावाचिनेति वृत्यंशेन निषेधात्, नवैकादश वेति पर्यायप्रदर्शनाऽसम्भवाच । एवमप्रेऽपि । अधिका दश येभ्यो येषु वा, दशानामधिकत्वबैकाद्यपेक्षम्, अवयवेन विग्रहः समासार्थः समुदायः । येभ्यो येषु वैकादशादिसमुदायेष्वेकाद्यपेक्षयाऽधिका दश विद्यन्ते, त एकादशादि. समुदाया अधिकदशा उच्यन्ते । अध्यर्द्धा विंशतिर्येषान्तेऽध्यर्धवि. शास्त्रिशदित्यर्थः । विंशतेस्तेडिति', 'परतः स्रोपुवदिति तेलोपो इस्वश्व । पञ्चानां पूरणा पञ्चमी, अर्धा पश्चमी यासां ता अर्द्धपश्चमा इत्यर्द्धशब्दपूर्वपदं पुरणप्रत्ययान्तं नाम, 'पूरणीभ्यस्तत्प्राधान्येऽबि'ति अप्प्रत्ययः । अर्द्धपञ्चमा विंशतयो येषान्तेऽर्द्धपश्चमविंशाः, नवतिरित्यर्थः । पूर्ववत् । एकार्थश्चाने कञ्चेत्यनेनैव बहुव्रीही सिद्धेऽप्यासन्ने. त्यादिप्रतिपदोक्तबहुव्रीहिविधानं 'लक्षणप्रतिपदोकयोः प्रतिपदोक्तस्यैव ग्रहणमिति न्यायं ज्ञापयति, तद्धि 'प्रमाणीसङ्ख्याः ' इति डसमासान्तविधावेतद्बहुव्रीहिग्रहणार्थं तेनासन्ना दश येषान्त आसन्न. दशा इत्यादावेव डः स्यात्, 'एकार्थश्चानेकञ्चे' त्येतत्सूत्रनिष्पन्ने तु डो न स्यात्, यथा प्रिया दश येषान्ते प्रियदशान इत्यादि ॥ अव्ययम् ॥ सङ्ख्येये सङ्ख्यया द्वितीयाद्यन्यार्थे बहुव्रीहिरिति चानुवर्तन्ते । उप समीपे दश दशत्वं येषान्त उपदशाः, नवैकादश वेत्यर्थः । उपशब्दोऽत्र समीपे समीपिनि च वर्तते, आयेऽव्ययी. भावः द्वितीये तु बहुव्रीहिरिति विवेकः, अत्रोपशब्दः समीपवर्ति
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy