________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
गावो धनमस्य । नाम्नेति किम् ? चैत्रः पचति ॥ सुज्वाऽर्थे सामर्थ्यम्, तत्र स्वार्थे पर्यवसायिनां पदानामाकाङ्क्षादिवशाद् यः परस्परसम्बन्धः सा व्यपेक्षा, सैव राज्ञः पुरुष इत्यादी वाक्ये | तत्र ह्यपेक्षायां सत्यां यो यः सन्निहितो योग्यश्च तेन सम्बन्धोऽभ्युपेयते । एकार्थीभावस्तु राजपुरुष इत्यादिवृत्तावेव, स च प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरूपः । एकार्थीभावलक्षणसामध्ये सति समासो भवति व्यपेक्षाव्युदासाय साम
३२१
विशेष इत्युक्तम् । कचिच्च पृथगर्थत्वेन पदानां सामर्थ्यमननुभूया - येकार्थीभावो भवति, यथोपकुम्भं कुम्भकार इत्यादि । अत्र च वाक्यान्तरेण केवलमर्थः प्रदश्यते कुम्भस्य समीपमुपकुम्भं करोतीति । विस्पष्टं पटुर्विस्पष्टपटुः, पट्टादयः शब्दाः पदादिगुणयोगान् मुख्यतया गुणिनि वर्तमाना अपि गौणतया पाटादावपोति विस्पष्टादयः पट्टादीनां प्रवृत्तिनिमित्तस्य पाटवादेर्विशेषणानि, न तु द्रव्यस्य, अतो विस्पष्टमिति नपुंसकत्वमत एव मुख्यं सामानाधिकरण्यं नास्तीति कर्मधारय तत्पुरुषाभावः, किन्तु गुणविशेषणस्य गुणवचनेन सहैतत्सू - त्रेण समासः दारुणमध्यायक इत्यादिषु क्रियाविशेषणस्य क्रियावता समासो दारुणं यथा भवति तथाऽध्यायक इत्यर्थः, क्रियाविशेषणत्वाद्दारुणमिति नपुंसकत्वम् । सर्वचम्मणो सार्वचमणो वा रथः, 'सर्वचर्मण ईनेनञौ', अत्र तद्धितार्थे समासः । कन्ये इवेत्यादिरिवेन सहाऽलुप्समासः । श्रुतपूर्वः । बहुलमिति शिष्टप्रयोगानुसरणार्थम्, तेनाऽनुव्यचलतू, अनुप्रावर्षत्, भात्यर्कोऽत्रेति भात्यक नभ इत्यादि भवन्ति । समासस्य फलमैकपद्यं नित्यसन्ध्यादिः । समासस्य च नामत्वेऽपि सङ्ख्यायारत्यादिभिरेवोक्तत्वादनुव्यचलदित्यादौ न स्यादयः । पदत्वार्थमुत्पन्नस्य वा प्रथमैकवचनस्य त्याद्य
४१