________________
चतुर्थपादः ] अवरिपरिष्कारसहितायाम् । ३०५ न्तस्य नाम्नो ह्रस्वः स्यात् । कीलालपम् , अतिनु कुलम् ॥ वेदूतो. ऽनव्ययम्वृदीचूङीयुवः पदे ।। ९८ ॥ ईदूतोरुत्तरपदे परे हस्वो वा स्यात्, न चेतावव्ययौ स्वृतौ ईचौ ड्यौ इयुवस्थानौ च स्याताम् । लक्ष्मीपुत्रः, लक्ष्मिपुत्रः । खलपूपुत्रः, खलपुपुत्रः । अव्ययादिवर्जन किम् ! काण्डीभूतम् , इन्द्रहूपुत्रः, कारीषगन्धीपुत्रः, गार्गीपुत्रः, श्रीकुलम् , भ्रूकुलम् ॥ ड्यापो बहुलं नाम्नि ॥ ९९ ।। उपन्तत्वस्य स्वरधर्मत्वात् ह्रस्वविधानबलेन स्वरस्योपस्थितिः । स च नाम्नो विशेषणं तदन्तविधिश्च । कीलालं पिबति यत्कुलं तत्कीलालपं " मन्वन्कनिबि"ति विच् प्रत्ययः, क्लीबेऽनेन ह्रस्वः । नावमतिक्रान्तं यत्कुलं तदतिनु, अत्रानेनौकारस्य उकारो ह्रस्वः ॥ वा, ईंच्च ऊच्च तस्य, अव्ययश्च वृच्च ईच डीश्च इय् च उव् च ततो नक्समासस्तस्य, पदे । ह्रस्व इत्यनुवर्तते । लक्ष्म्याः पुत्रो लक्ष्मीपुत्रः, लक्ष्मिपुत्रः, अनेन वा ह्रस्वः । लक्ष्मीत्यत्र ईकारो न ङीसम्बन्धी, औणादिकेन ईप्रत्ययेन निवृत्तत्वात् , नवा इयस्थानी ईकारः, धातुसम्बन्धित्वाभावात् । खलप्वः पुत्रः खलपूपुत्रः खलपुपुत्रः, अत्र ऊकारस्य धातुसम्बन्धित्वेऽपि " किन्वृत्तेरसुधियस्तावि"त्यनेन यकारवकारयोरेव भावान्न उवस्थानित्वम् । काण्डीभूतम् , अभूततद्भावे चिः, ऊर्याद्यनुकरणेति गतिसंज्ञा, गतित्वाच्च गतिरित्यव्ययत्वम् । इन्द्रं ह्वयतीति किपि, यजादिवचेरिति वृति, दीर्घमवोन्त्यमिति दीर्घ इन्द्रहः, इन्द्रः पुत्रः इन्द्रहूपुत्रः, अत्र वृत्सम्बन्धी ऊकारः । कारीषगन्धीपुत्र इत्यत्र ईचसम्बन्धीकार उक्तः । गााः पुत्रो गार्गीपुत्रः, अत्र डीसम्बन्धीकारः । श्रियो भ्रुवो वा कुलम् , अत्र इयुवस्थानिनावीकारोकारौ ॥ डीश्वाऽऽप् च तस्य, बहुलम् , नाम्नि । पदे ह्रस्व इत्यनुवर्तेते । भरणिगुप्त इत्यादीनां संज्ञावाचिनामनेन