SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २९२ सिबहेमलघुवृत्ती [द्वितीयाध्यायस्त न्तास्त्रियां डीर्वा स्यात्, ङीयोगे च डायनन्तः । पौतिमाष्यायणी, पौतिमाया । आवघ्यायनी, आवट्या ॥ कौरव्यमाण्डूकाऽऽसुरैः ॥ ७० ॥ एभ्यः स्त्रियां डीः स्यात् । ङीयोगे च डायनन्तः । कौरव्यायणी, माण्डूकायनी, आसुरायणी ॥ इञ इतः ॥ ७१ ॥ इञन्तादिदन्तास्त्रियां ङीः स्यात् । सौतङ्गमी । इत इति किम् ! कारीषगन्ध्या ॥ नुर्जातेः ॥ ७२ ॥ मनुष्यजातिवाचिन इदन्तास्त्रियां डीः भाविना डायना । पूङ पवने, पूयते इति पूतिः, पूतयो मासा यस्यासौ पूतिमासस्तस्यापत्यं वृद्धं स्त्री पौतिमाध्यायणी, गर्गादेर्यञ्, आदिवृद्धिमः, डायन् पक्षे आत् , एवमावट्यायनी ॥ कौरव्यश्च माण्डूकश्वाऽऽसुरिश्च तस्मात् । डायनान्त इत्यनुवर्तते । राज्ञः कुरोरपत्यं स्त्रीत्यत्र दुनादिकुवित्कोशलेति यः प्रत्ययो वृद्धिः, यदा कुरोर्ब्राह्मणस्यापत्यं स्त्रीति विगहस्तदा "कुर्वादेर्व्यः,” शिष्टं पूर्ववत् । अनयोर्विग्रहयोरयं विशेषः, बहुवचने दुनादित्यस्य द्रिसंज्ञकत्वाल्लुब् भवति । 'अस्वयम्भुवोऽव् ' डीडॉयन्, कौरव्यायणी । मण्डूकस्यापत्यं स्त्री माण्डूकायनी, पीलासाल्वामण्डूकाद्वेत्यण् प्रत्ययः । असुरस्यापत्यं स्त्री आसुरायणी, बाह्वादिभ्यो गोत्रे इतीञ् प्रत्ययः ॥ इनः पञ्चमी, इतः पश्चमी । सुतङ्गमेन निवृत्ता सौतङ्गमी, सुतङ्गमादेरिञ् । करीषस्येव गन्धो यस्य करीषगन्धिः, वोपमानादिति इः, तस्यापत्यं स्त्री अपत्यार्थेऽणि, अनार्षे वृद्धेऽणियाविति ध्यप्रत्ययः, आप कारीषगन्ध्या । अपत्ये अन्तस्य मनुष्यजातिवचनत्वादुत्तरसूत्रेणैव सिद्धेऽजात्यर्थोऽयमारम्भः । अत्र इन इति तद्धितसम्बन्धिन इन एव ग्रहणं 'यसो डायन्च वे'त्यनेन तद्धिताधिकारस्य प्रारब्धत्वेन प्राकरणिकत्वान्न तु 'प्रश्नाख्याने वेञ्' इति कृत्सूत्रोक्तो ग्राह्योऽप्राकरणिकत्वात् , प्राकरणिकाप्राकरिणकयोः प्राकरणिकस्यैवेति न्यायात् ।। नुः पञ्चमी, जाते: पञ्चमी । इत इत्यनुवर्तते । कुन्तेरपत्यं स्त्री कुन्ती, दुनादिकुवित्को.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy