________________
२७४
सिद्धहेमलघुकृत्तौ द्वितीयाध्यायस्य दशराजी ॥ परिमाणात्तद्धितलुक्यविस्ताऽऽचितकम्बल्यात् ॥ २३ ॥ परितः सर्वतो मानं परिमाणं । रूढेः प्रस्थादि, बिस्तादिवर्जपरिमाणान्ताद् द्विगोरदन्ताचद्धितलुकि स्त्रियां ङीः स्यात् । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । परिमाणादिति किम् ! पञ्चभिरश्वैः क्रीता पञ्चाश्वा । तद्धितलुकीति किम् ! द्विपण्या । द्विगुस्तस्मात्, सम्यगाहरणमेकीभाव इति समाहारस्तस्मात् , द्विगोविशेषणमिदं तेन समाहारद्विगुसंज्ञकनाम्नो ग्रहणम् । आदिति वर्तते । पञ्चानां पूलानां समाहारः पञ्चपूली, दशानां राज्ञां समा. हारो दशराजी, राजन्सखेरित्यत्प्रत्ययः । नोऽपदस्य तद्धिते इत्यन्लोपः, अस्य ड्यां लुक् ॥ परिमाणात् , तद्धितस्य लुक् तस्मिन् , बिस्तश्चाचितश्च कम्बल्यञ्च, न बिस्ताचितकम्बल्यं तस्मात् । आविगोरिति वर्तते । एवमग्रेऽपि । अत्र परिमाणशब्देनाऽऽरोहत: परिणाहतश्च येन काष्ठादिनिर्मितेन धान्यादि मीयते तत्प्रस्थादि गृह्यते । यदाहुः, 'ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् , सङ्ख्या बाह्या तु सर्वतः ॥' द्वाभ्यां कुडवाभ्यां क्रीतेत्यत्र मूल्यैः क्रीते इतीकणि, अनाम्न्यद्विः प्लुबिति तल्लुपि, अनेन च ड्यां तत्सिद्धिः । पञ्चाश्वा, अत्र इकणू तल्लोपश्च, अपरिमाणत्वान्नानेन ङीः, अणयेकणित्यनेनापि न डीः, तेषामेवाणादीनां वाच्यायां स्त्रियां वर्तमानात् डीभवतीति तत्रोक्तेः । द्वाभ्यां पणाभ्यां क्रीता द्विपण्या, पणपाद इति यप्रत्यये तस्य च विधानसामादलुपि सिद्धिः,
आदित्याप् च । द्वाभ्यां बिस्ताभ्यां क्रीता द्विबिस्ता, इकण, द्वित्रिबहोर्निष्कविस्तादितीकण लोपः । ननु बिस्तादय उन्मानवचनाः, बिस्तशब्देन हि षष्टिः पलशतान्युच्यन्ते, आचितशब्देन दशभारास्मकं तौलकम् । कम्बल्यशब्देनापि ऊर्णापलशतमुच्यतेऽशीतिशतमित्यन्ये, षट्षष्टिशतमित्यपरे । तत्रापरिमाण वाद् डीप्रसङ्गाभावात्किं