________________
२७०
सिद्धहेमलघुवृत्ती [ द्वितीयाध्यायस्य उद्दामानं पश्य ॥ अनो वा ॥ ११ ॥ अन्नन्ताद्बहुव्रीहः स्त्रियां ङीर्वा स्यात् । बहुराज्यौ, बहुराजे, बहुराजानौ ॥ नाम्नि ॥ १२ ॥ अन्नन्ताबहुव्रीहेः स्त्रियां संज्ञायां नित्यं ङीः स्यात् । अधिराज्ञी, सुराज्ञी नाम ग्रामः ॥ नोपान्त्यवतः ॥ १३ ॥ यस्योपान्त्यलग् नास्ति, तस्मादन्नन्ताबहुव्रीहेः स्त्रियां छीन स्यात् । सुपर्वा, सुशर्मा । उपान्त्यवत इति किम् ? बहुराज्ञी । मनः ॥ १४ ।। मन्नन्तास्त्रियां
ल्पेन डाप, तस्याप्यभावे उद्दामा, तस्य द्वितीयायामुद्दामानम् । डापि तु डित्यनो लोपादुद्दामाम् , ड्यां तु, अनोऽस्येत्यलोपे उद्दाम्नीम् । रूपत्रयस्य स्पष्टप्रतिपत्तये द्वितीयान्तं प्रत्युदाहृतम् ॥ अनः पञ्चमी, वा । अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्तीति न्यायेन तदन्तविधिप्रवृत्तिः । उत्तरत्र सूत्रे उपान्त्यवतः प्रतिषेधादुपान्त्यलोपिन एवायं विधिः । बहवो राजानो ययोस्ते बहुराज्ञौ, अनेन डीः, अनोऽस्य, अलोपः, पक्षे डापि अन्लोपे औरीः बहुराजे, पक्षे बहुराजानौ ॥ नाम्नि ॥ बहुव्रीहेरित्यनुवर्तते । अनो वेत्येव सिद्धौ पृथक् सूत्रकरणं नित्यत्वसूचनार्थम् । अधिको राजा यस्यां साधिकराज्ञी, ग्रामविशेषस्य संज्ञा । अयमप्युपान्त्यलोपिन एव भवति । शोभनो राजा यस्यां सा सुराज्ञी ।। न, अन्तस्य समीपमुपान्तं उपान्ते भव उपान्त्यः, सोऽस्यास्तीति तस्मात् । बहुव्रीहेरन इत्यनुवर्तते । सुपर्वा इत्यादौ न. वमन्तसंयोगादित्युपान्त्यलोपनिषेधः, ततश्चानो वेति स्त्रियां नृत इति वा सूत्रेण न हीः, उभयोरनेन प्रतिषेधात् । बहुराज्ञी, पूर्ववत् ॥ मनः पञ्चमी । नेति वर्तते । योगवि. भागादत्र बहुव्रीहेरिति न सम्बध्यते । अतिमहिमा इत्यादावपि अनिनस्मन्ग्रहणानीति न्यायात् ङीप्रतिषेधः । सीमा इत्यत्र मन् सार्थकः, अतिमहिमेत्यत्र मननर्थकः, इमन्प्रत्ययत्वात् । आपोऽपि निषेध