________________
तृतीयपादः ] अवधिपरिष्कारसहितायाम् । २६३ उपसर्गस्यायौ ॥ ११० ॥ उपसर्गस्थस्य रस्यायतौ परे लू स्यात् । प्लायते, प्लत्ययते ॥ ग्रो यङि ॥ १०१ ॥ यङि परे गिरते रो ल् स्यात् । निजेगिल्यते ॥ नवा स्वरे ॥ १०२ ॥ प्रो रः स्वरादौ प्रत्यये परे विहितस्य ल् वा स्यात् । गिलति, गिरति, निगाल्यते, निगार्यते । विहितविशेषणं किम् ? गिरः ॥ परेर्घाऽङ्कयोगे ॥ १०३ ॥ परिस्थस्य रो घादौ परे ल वा स्यात् । पलिघः, परिधः । रमध्ये हि अर्धमात्रो रेफोऽग्रे, पश्चाच्च तुरीयः स्वरभागोऽस्ति, एवं लुकारेऽर्धमात्रो लः, पश्चाच्च तुरीयः स्वरभाग इति वृद्धाः प्राहुः, इति चेन्मैवम् , कचिद् वर्णकदेशानां वर्णग्रहणेनाग्रहणमिति ज्ञापनार्थत्वात् , अत एव 'रघुवर्णादि'त्यत्र रेफऋवर्णयोरुभयोर्ग्रहणम् , अन्यथा रेफग्रहणेनैव ऋवर्णस्यापि प्राप्तौ तदुपादानं व्यर्थं स्यात् ।। उपसर्गस्य, अयौ सप्तमी ॥ ऋरलुलमित्यनुवर्तमानमपि रो लमित्येव सम्बध्यते, प्लायत इत्यत्र रस्य लः, प्लत्ययते, अत्र प्रते रस्य लः । निरयते, दुरयत इत्यादौ तु निम्दुसोः रुत्वस्याऽसिद्धत्वान्न लत्वम् , अयीति इकारनिर्देशोऽपि गतावित्यस्य परिग्रहार्थः ।। ग्रः षष्ठी, यङि ।। पूर्ववदनुवृत्तिः । गृ निगरणे, गर्हितं निगिरति निजेगिल्यते ।। नवा, स्वरे ।। ग्रः, ऋरललमित्यनुवर्तन्ते । 'सप्तम्या आदिः', स्वरादिप्रत्यये परतस्तन्निमित्तो यो रस्तस्यैव लकारो भवति । गृत् निगरणे, वर्तमाने तिव् , 'तुदादेः शः' तस्य डित्वात् तन्निमित्तः 'ऋतां क्ङितीर्' अनेन रकारस्य लः । निगाल्यते, अत्र निपूर्वात् गृधातोर्णी वृद्धौ, अनेन लत्वस्य निलोपस्य च प्राप्तौ नित्यत्वात्पूर्व निलोपः । न च ' प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायेन लत्वमपि नित्यमिति वाच्यम् , वर्णाऽऽश्रये प्रत्ययलक्षणस्य निषेधात् । गिर इत्यत्र क्विन्निमित्त इर्, न तु स्वरादिप्रत्ययनिमित्त इति न लत्वम् । परेः षष्ठी, घश्च अङ्कश्च योगश्च तस्मिन् ॥ ऋरलुलमिति वर्तते । परिहन्यतेऽनेनेति पलिघः।