________________
तृतीयपादः ] अवरिपरिष्कारसहितायाम् । २५९ परो यो व्यञ्जनादिर्नाम्युपान्त्यो धातुस्ततः परस्य कृतः स्वरात्परस्य नो ण् वा स्यात् । प्रमेहणं, प्रमेहनम् । व्यञ्जनादेरिति किम् ? प्रोहणम् । नाम्युपान्त्यादिति किम् ? प्रवपणं प्रवहणम् । स्वरादित्येव ? प्रभुमः । अदुरित्येव ? दुर्मोहनः । लचटादिवर्जनं किम् ? प्रभेदनं प्रभोजनम् । स्वरादित्यनेन नित्यं प्रावे विभाषेयम् ॥ जेर्वा ॥ ८८ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य ण्यन्तस्य धातोर्विहितस्य स्वरात्परस्य नो ण् वा स्यात् । प्रमाणा, प्रमगना । विहितविशेषणं किम् ? प्रयाप्यमाणः प्रयाप्यमान इति क्यान्तरेऽपि स्यात् ॥ निर्विण्णः ॥ ८९ ॥ निर्विदेः सत्तालाभविचारणार्थात्परस्य तस्य नो णत्वं स्यात् । निर्विण्णः ॥ न ख्यापूग्भूभाकमगमप्यायवेपो णेश्च ॥९॥ अदुरुपसर्गान्तःस्थाद्रादेः परेभ्यः ख्यादिभ्योऽण्यन्तण्यन्तेभ्यः परस्य कृतो नो ण् न स्यात् । प्रख्यानं प्रख्यापनम् । प्रपवनं प्रपावनम् । प्रभवनं वृत्तिः पूर्ववत् । मिह सेचने प्रमेहनम् । ऊहि तर्के, प्रोह्यते प्रोहणम्, 'नाम्यादे'रिति णत्वम् । प्रवपणं 'स्वरादिति णत्वम् ॥ णेः षष्ठी, वा ॥ पूर्ववदनुवृत्तिः। प्रमङ्गणं प्रमङ्गणा ‘णिवेत्त्यासे' त्यनप्रत्ययः । अनाम्न्यादिभ्यो नागमे सति 'नाम्यादेरेव ने' इति नियमेनाप्राप्ते नागमरहितेभ्यस्तु 'स्वरादि'त्यनेन नित्यं प्राप्ते, उभ. यत्र विभाषेयम् ॥ निविण्णः प्रथमा | विदिच् सत्तायां, विलंती लाभे, विदिप विचारणे । निर्विद्यते स्म क्तः ‘रदादमूर्छ 'ति तस्य दस्य च नः, अनेन क्तसम्बन्धिनस्य णत्वं निपात्यते । धातुनकारस्य तु तवर्गस्य' 'रषवर्णादि' त्यनेन वा णत्वम् , दकारेण व्यवधानात् , स्वरादुत्तरत्वाऽभावादप्राप्ते विधानम् ॥ न, ख्या च पूग् च भूश्च भाश्च कमश्च गमश्च प्यायश्च वेप् च तस्मात्, णेः पञ्चमी, च । अदुरुपसर्गान्तरः, कृति, इत्यनयोः सम्बन्धः । ख्येति निरनु. बन्धोपादानात् ख्याङ्क प्रकथने 'इत्यस्यादेशभूतस्या च ख्यारूपस्य