________________
२५५
तृतीयपादः ] अषचूरिपरिष्कारसहितायाम् । अन्तर्णयति । हिनु:-प्रहिणुतः। मीना-प्रमीणीतः । आनि-प्रयाणि । अदुरिति किम् ! दुर्नयः ॥ नशः शः ॥ ७८ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नशः शन्तस्य नो ण् स्यात् । प्रणश्यति, अन्तर्णश्यति । श इति किम् ? प्रनयति ॥ नेर्मादापतपदनदग. दवपीवहीशभूचिग्यातिवातिद्रातिप्सातिस्थतिहन्तिदेग्धौ ॥७९॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्योपसर्गस्य ने! माङादिषु नानर्थकस्येति न्यायात, तेन प्रवृद्धा वपा येषान्तानि प्रवपानि मांसानि, अत्र न णत्वम् । अत्र प्रशब्दो वृद्धं प्रत्येवोपंसर्गः, 'येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा भवन्तीति न्यायात् , वपाशब्दं प्रति तु तस्य नोपसर्गत्वम्, 'यत्रोपसर्गत्वं न सम्भवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते, न तु सम्भवत्युपसर्गत्वे' इति न्यायेन नाम्नः प्रति प्रादीनामुपसर्गत्वासम्भवादुपसर्गपदेन प्रादीनां ग्रहणम् । उपसर्गात् परसमुदायावयवानिशब्दस्य नकारस्य णत्वमित्यर्थाद्वा नात्र णत्वम् । यांक प्रापणे, पञ्चमी आनि प्रत्ययः, प्रयाणि ॥ नशः षष्ठी, शः षष्ठी ॥ अदुरुपसर्गान्तर इति सम्बध्यते । श इति नशो विशेषणम् , तदन्तविधिः । नशौच अदर्शने, 'दिवादेः श्यः' । प्रनक्ष्यतीति, प्रपूर्वस्य नशो धुटि नोऽन्तः, भविष्यन्ती स्यति, 'यजसृजे 'ति षः, 'षढोः कस्सि' 'म्नां धुड्वर्गे' 'नाम्यन्तस्थे 'ति षः । अत्र ‘परेऽ. सदिति, अन्तरङ्गत्वात्पूर्वमनेन कृतमपि णत्वं पत्वादावसत्त्वात्पत्वे कृतेऽपि 'एकदेशविकृतस्याऽनन्यत्वात्' प्राप्तमपि साक्षात्षकारान्त. त्वाभावानिवर्त्यते । नशेरणोपदेशत्वात्पूर्वेणासिद्धे विध्यर्थमिदम् । पाणिनीये त्वयं धातुर्णोपदेशः ॥ नेः षष्ठी, डकारेणोपलक्षितो मा ङ्मा, ङ्माश्च दाश्च पतश्च पदश्च नदश्च गदश्च वपीश्च वहीश्च शमूश्च चिग् च यातिश्च वातिश्च द्रातिश्च प्सातिश्च स्यतिश्च हन्तिश्च देग्धिश्च तस्मिन् ॥ ङ्मेति माङ्मेडोर्महणम् । प्रणिमिमीते, माङो रूपम् ,