________________
तृतीयपादः ] अवध्रिपरिष्कारसहितायाम् । २५३ सीति किम् ? चतुर्हायना शाला | वोत्तरपदान्तनस्यादेरयुवपकाह्नः ॥ ७५ ॥ पूर्वपदस्थाद्रादेः परस्य उत्तरपदान्तभूतस्य नागमस्य स्यादेश्च नो ण् वा स्यात् , चेद् युवपक्काहनसम्बन्धी न स्यात् । व्रीहिवापिणी, ब्रीहिवापिनौ । माषवापाणि, माषवापानि । व्रीहिवापेण, बीहिवापेन । युवादिवर्जनं किम् ! आर्ययूना, प्रपक्कानि, दीर्घाही यणी, 'सङ्ख्यादेहायनाद्वयसि' डीप्रत्ययः । प्राणिनां कालकृता शरीरावस्था पाल्ययौवनादिका वयः ॥ वा, उत्तरं च तत्पदं च उत्तरपदम्, उत्तरपदस्यान्तः, उत्तरपदान्तश्च नश्च स्यादिश्च तस्य, युवा च पक्कश्च अहा च, न युवपक्काहन् तस्य ॥ ब्रीहीन वपत इत्येवंशीलौ ब्रीहिवापिणौ, 'अजाते: शीले' णिन् प्रत्ययः उत्तरपदान्तस्थनस्योदाहरणम् । ननु व्रीहिवापिणावित्यादौ वापिन्नित्यस्य वृत्त्यन्तत्वेन 'वृत्त्यन्तोऽसः' इत्यनेनान्तर्वर्त्तिविभक्त्यपेक्षया प्राप्तपदत्वस्य निषेधात्कथमुत्तरपदत्वं येन तदन्तस्य नस्य वा णत्वं स्यादिति चेन्न, यद्वृत्त्यारम्भकस्यादिनिमित्ता पदसंज्ञा चिकीर्षिता तद्धटकार्थवदव्यवहितपूर्वत्वाभाववत्वस्वघटकत्वैतदुभयसम्बन्धेन वृत्तिविशिष्टत्वरूपोत्तरपदत्वस्य विवक्षितत्वात् । व्रीहीन वपत इत्येवंशीलौ एवंरूपा या वृत्तिस्तदारम्भकस्यादिनिमित्तिका पदसंज्ञा वापिन्नित्यस्य चिकीर्षिता, ताशवृत्तिघटको योऽर्थवान् वापिनशब्दः, तदव्यवहित. पूर्वत्वं ब्रीहिशब्दे, न तु वापिन्शब्दे, तद्वृत्तिघटकयत्किञ्चिदर्थवद. पेक्षया पूर्वस्वाभावात् , एवञ्च तद्वृत्तिघटकार्थवदव्यवहितपूर्वत्वाभाववत्वं वापिन्शब्दे वर्तते, तथा तद्वृत्तिघटकत्वमप्यस्तीति वृत्तिविशिष्टत्वादुत्तरपदत्वं तस्य विज्ञेयम् । माषवापाणीति नागमस्य, व्रीहिवापेणेति स्यादेः । आर्यश्चासौ युवा च तेन आर्ययूनेति, अत्र उत्तरपदान्तस्थनकारस्य सत्त्वेऽपि युवादिवर्जनान्न भवति । प्रपक्कानीत्यत्र नागमनकारसत्त्वेऽपि युवादिवर्जनान्न भवति, दीर्घाहीत्यत्रोत्तरपदा