________________
तृतीयपादः ] अवरिपरिष्कारसहितायाम् । वणमिक्षुवणं प्लक्षवणं पीयूक्षावणम् ॥ द्वित्रिस्वरौषधिवृक्षेभ्यो नवानिरिकादिभ्यः ॥ ६७ ॥ द्विस्वरेभ्यस्त्रिस्वरेभ्यश्चेरिकादिव.
भ्य ओषधिवृक्षवाचिभ्यः परस्य वनस्य नो ण् वा स्यात् । दूर्वावणं दूर्वावनम् , मापवणं माषवनम्, नीवारवणं नीवारवनम् । वृक्षः-शिग्रुवणं शिग्रुवनम् , शिरीषवणं शिरीषवनम् । इरिकादिवर्जनं किम् ? इरिकावनम् ॥ गिरिनद्यादीनाम् ॥ ६८ । एषां नो ण् वा स्यात् । गिरिणदी, गिरिनदी । तुर्यमाणः, तुर्यमानः ॥ पानस्य भावकरणे ॥ ६९ ॥ पूर्वपदस्थाद्रादेः परस्य भावकरणार्थस्य पानस्य नो ण् वा स्यात् । क्षीरपाणं, क्षीरपानं स्यात् । कषायपाणः, कषायपानः कंसः॥ विशेषवाची कार्याणां वनम्, कौमुद्यां तु कायॆवणम् । आम्राणां वनम् , शराणामिक्षूणां प्लक्षानां पीयूक्षाणां वा वनम् । पीयूक्षाशब्दो द्राक्षाऽपरपर्यायः । पीयूक्षाभ्य इति बहुवचनं संज्ञायामसंज्ञायाश्च णत्वार्थम् ॥ द्वौ च त्रयश्च, द्वित्रयः स्वरा येषान्ते द्वित्रिस्वराः, ओषधयश्च वृक्षाश्च ओषधिवृक्षाः, द्वित्रिस्वराश्च ते ओषधिवृक्षाश्च तेभ्यः, नवा, इरिका आदिर्येषान्त इरिकादयः, न इरिकादयः अनिरिकादयस्तेभ्यः । वनस्येत्यनुवर्तते । दूर्वाणां वनम् , एवं सर्वत्र षष्ठी समासः । दूर्वामाषनीवारशब्दा ओषधिवचनाः, शेषा वृक्षवचनाः ॥ 'ओषध्यः फलापाकान्ता लता गुल्माश्च वीरुधः । फली वनस्पतिज्ञेयो वृक्षाः पुष्पं फलोपगाः ॥' इति भेदे सत्यपि वृक्षेभ्य इति बहुवचनाद्वनस्पतीनामपि ग्रहणम् । इदमपि संज्ञायामसंज्ञायाम् । इरिका ओषधिबिशेषः। वृक्षशब्दादृक्षविशेषा एव ग्राह्यास्तेन वृक्षवनं द्रुमवनमित्यादौ न णत्वम् ॥ गिरिनदी आदिर्येषां तेषाम् ॥ पानस्य, भावश्च करणं च तस्मिन्, प्रीतिः पानम् , भावे अनट् । क्षीरस्य पानं क्षीरपाणम् , स्यात्पदं भावे पानशब्द इति सूचयति, क्षीरपानं हिताय स्यादिति भावः । कषायः पीयतेऽनेनेति कषायपानः, करणेऽनट् । कंस: पात्र