________________
तृतीयपादः ] भवन्त्रिपरिकारसहितायाम् । १४९ न स्यात् । अभिसोष्यति । सुसूपतेः किम् , सुसूः ॥ रघुवर्णान्नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे ।। ६३ ।। एभ्यः परस्यैमिस्सहैकस्मिन्नेव पदे स्थितस्यानन्त्यस्य नो णः स्यात्, लचटतवर्गान्शसौ च मुक्ताऽन्यस्मिन्निमित्तकार्यिणोरन्तरेऽपि।तीर्णम् , पुष्णाति, नृणाम् , नृणाम् ; करणम् , हणम्, अर्केण । एकपद इति किम् ! अग्निर्नयति, चर्मनासिकः । अनन्त्यस्येति किम् ! वृक्षान् । लादिवर्जनं किम् ! विरलेन, मूर्छनम् , दृढेन, तीर्थेन, रशना, रसना ।। इतम् । षणि 'णिस्तोरेवेति नियमादेव षत्वाभावात् , अभिसुसष. तीत्यपि नोदाहियते, अद्वित्व इति व्यावृत्यैव निवर्तितत्वात् ॥ रश्च ष च ऋवर्णश्च तस्मात् , नः षष्ठी, णः प्रथमा, एकञ्च तत्पदश्च तस्मिन् , अन्ते भवोऽन्त्यः, न अन्त्यस्तस्य, चश्च टश्च तश्च चटतास्तेषां वर्गाः, शश्च सश्च शसौ, लश्च चटतवर्गाश्च शसौ च, न लचटतवर्गशसास्तैरन्तरं तस्मिन् ॥ तीर्यते स्मेति तीर्णम् , 'ऋल्वादेरि'ति तस्य नः, 'ऋतां विडतीर्' अनेन रेफाव्यवहितस्य नस्य णः । पुष्णाति, षकाराव्यवहितस्य भाया नस्य णः । नृणामिति ऋवर्णाव्यवहितस्य नामो नस्य णः । करणमिति रेफात्परस्याकारव्यवहितस्याप्यनो नस्य णः । बृंहणमिति ऋवर्णात्परस्यानुस्वा. रहकाराकारैर्व्यवहितस्याप्यनो नस्य णः । अर्केणेति रेफात्परस्य ककारैकारव्यवहितस्यापि नस्य णः । चर्मनासिक इत्यत्र समासापेक्षयैकपदत्वेऽपि 'प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायत' इति न्यायात् समासान्तर्वति विभक्याश्रयेण भिन्नपदत्वान्न नस्य णत्वम् , अत एव पदे इत्यनुक्का एकपदे इत्युक्तम् । तथा च यत् नित्यमेकमेव तादृशं पदमत्र विवक्षितं समस्तन्तु एकश्चानेकञ्च भवति, तत्र न णत्वम् । एवञ्च निमित्तवत्पदभिन्नपदत्वाभाववद्वृत्तिनकारस्येत्यर्थस्तथा च मातृभोगाय हितो मातृभोगीण इत्यादावपि णत्वं भवत्येव, नकारस्य प्रत्ययवृत्तित्वेऽपि निमित्तवत्पदभिन्नपदवृत्तित्वा