________________
२३७
तृतीयपादः ] अवरिपरिष्कारसहितायाम् । ॥ १६ ॥ अग्नेः परस्य स्तुतः सस्य समासे ष् स्यात् । अमिष्टुत् ।। ज्योतिरायुया॑श्च स्तोमस्य ॥ १७ ॥ आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे ष् स्यात् । ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः । समास इत्येव ? ज्योतिः स्तोमं याति ॥ मातृपितुः स्वसुः ।। १८ ।। आभ्यां परस्य स्वसुः सस्य समासे ष् स्यात् । मातृप्घसा, पितृष्वसा ॥ अलुपि वा ॥ १९ ॥ मातृपितुः परस्य स्वसुः सस्यालुपि समासे वा ष् स्यात् । मातुःप्वसा, मातु:स्वसा । पितुःष्वसा, पितुःस्वसा ॥ निनद्याः स्नातेः कौशले ॥ २० ॥ आभ्यां परस्य स्नातेः सस्य समासे कू स्यात् , कौशले गम्यमाने । निप्यो निष्णातो वा पाके. नदीप्णो नदीप्णातो वा प्रतरणे । कौशल इति किम् ? निस्नातः, नदीस्नः । यः श्रोतसा हियते ॥ प्रतेः स्नातस्य सूत्रे ॥ २१ ॥ प्रतेः परस्य स्नातस्य सः समासे अग्निष्टुत् , अत्र 'पः सोष्टयै ०' इति सूत्रेण सकारः कृतः । षत्वे कर्तव्ये उत्तरस्य पदत्वात् पूर्वसूत्रेणाऽप्राप्तौ सत्यां वचनम् ॥ ज्यो. निश्च आयुश्च ताभ्याम् , च, स्तोमस्य ॥ समासे इति च वर्तते । एवमग्रेऽपि । चशब्देनाग्निशब्दस्य समुच्चयः । ज्योतिषां स्तोमः ज्योतिटोमः, एवमग्रे ॥ ज्योतिः स्तोमं याति, प्रदीपः समूहं प्रापयतीत्यर्थः । अकृतत्वात् पदादित्वाच्चाप्राप्ते विधीयते ।। माता च पिता च तस्मात् , स्वसुः षष्ठी ।। मातुः स्वसा मातृष्वसा । 'स्वसृपत्योर्वे 'त्यनेन षष्ठया वा लुप् ॥ न विद्यते लुप् यत्र तस्मिन् अलुपि, वा ॥ पूर्वसूत्रं वर्तते । पूर्वेण नित्ये प्राप्ते विकल्पः ॥ निश्च नदी च निनदी तस्याः, स्नातेः षष्ठी, कुशले भवं कौशलम् भवेऽण् , यद्वा कुशलस्य भावः कर्म वा युवादेरण , कौशले । निष्णातीति निष्णः, निष्णाति स्मेति निष्णातः, एवं नद्यां स्नाति स्म नदीष्णातः ॥ प्रतेः पञ्चमी, स्नात. स्य, सूत्रे ॥ प्रतिष्णातं सूत्रम् , विशेषानुपादानात् सूत्रपदेन ऊर्णा देः