SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । २२५ द्वितीयाषष्ठ्यौ स्याताम्, न चेत्सोऽञ्चेः परः स्यात् । पूर्वेण ग्रामं ग्रामस्य वा । अनश्चेरिति किम् ? प्राग् प्रामात् ॥ हेत्वर्थस्तृतीयाद्याः ॥११८ ॥ हेतुर्निमित्तं तद्वाचिभिर्युक्तातृतीयाद्याः स्युः । धनेन हेतुना, धनाय हेतवे, धनाद्धेतोः, धनस्य हेतोः, धने हेतौ वा वसति । एवं निमित्तादिभिरपि ॥ सर्वादेः सर्वाः ॥ ११९ ॥ हेत्वथैर्युक्ता. त्सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः, कं हेतुम् , केन हेतुना, कस्मै हेतवे, कस्माद्धतोः, कस्य हेतोः, कस्मिन् हेतौ वा याति ।। असत्त्वारादर्थात् टाङसिङयम् ॥ १२० ॥ असत्त्ववाचिनो दूरार्थादन्तिकार्थाच्च टाङसिङ्यमः स्युः । गौणादिति निवृत्तम् । दूरेण दूरादूरे दूरं वा ग्रामस्य ग्रामाद्वा वसति । एवं विप्रकृष्टेनेत्यादि । अन्तिएनेन तृतीया, नाचिरनश्चिस्तस्मात् । प्राग् प्रामादिति, अञ्च गतौ च, प्राश्चतीति विप् , 'अञ्चोऽनर्चायां' नलोपः, 'अचः' ङीप्रत्ययः, 'अञ्च् प्राग्दीर्घश्च,' प्राच्यामदूरवर्तिन्यां दिशि वसति, 'अदूरे एनः' लुबञ्चरित्यनेनैनलोपः, एनस्य उंयादेौणस्याकिप इति ङीनिवृत्तिः, 'अव्ययस्य' ॥ हेतोरों येषान्ते तैः, तृतीया आद्या यासां तास्तृतीयाद्याः। आद्यशब्देन चतुर्थीपञ्चमीषष्ठीसप्तमीनां ग्रहणम् । हेत्वर्थशब्देन गौणस्य नाम्नस्सामानाधिकरण्यमपेक्षितम् , असामानाधिकरण्येन हेत्वर्थशब्दसम्बन्धे त्वन्नस्य हेतुरित्यादौ षष्ठयेव । अग्रिमसूत्रेण हेत्वथैर्युक्तात्सर्वादेः सर्वविभक्तिविधानादत्रास देस्तृतीयाद्या विभक्तयो बोध्याः । अन्ये तु हेत्वर्थशब्दयोगे नेच्छन्ति, हेतुशब्दयोगे तु षष्ठीमेवेच्छन्ति ॥ सर्व आदिर्यस्यासौ तस्य, सर्वाः प्रथमा। हेत्वरित्यनुवर्तते । प्रथमां नेच्छन्त्येके, द्वितीयामपरे ॥ न सत्वमसत्त्वम् , आरादों यस्य तदारादर्थम् , असत्त्वे आरादर्थ तस्मात् , टाश्च ङसिश्च डिश्च अम् च टाङसिङयम् ॥ टाङसिङय.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy