________________
द्वितीयपादः ] . भवत्रिपरिष्कारसहितायाम् । २१५ द्विहेतोरस्त्यणकस्य वा ॥ ८७ ॥ स्त्र्यधिकारविहिताभ्यामणकाभ्यामन्यस्य द्वयोः कर्तृकर्मषष्ठ्योहेंतोः कृतः कर्तरि षष्ठी वा स्यात् । विचित्रा सूत्राणां कृतिराचार्यस्याचार्येण वा । द्विहेतोरित्येकवचनं किम् ? आश्चर्यमोदनस्य पाकोऽतिथीनाञ्च प्रादुर्भावः । अस्व्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम् , भेदिका चैत्रस्य काष्ठानाम् ।। कृत्यस्य वा ॥ ८८ ॥ कृत्यस्य कर्तरि षष्ठी वा स्यात् । त्वया तव वा कृत्यः कटः ।। नोभयोर्हेतोः ॥ ८९ ॥ उभयोः कर्तृकर्मणोः षष्ठीहेतोः द्वयोहेतुस्तस्य द्विहेतोः, अश्च णकश्चाणकं स्त्रियामणकं स्यणकं न स्त्र्यणकमस्यणकं तस्य, वा ॥ कर्तरीति वर्तते । कर्तरीत्यनेन नित्यं षष्ठीप्राप्ते विभाषेयम् । विचित्रा सूत्राणां कृतिरित्यत्र कृतिशब्दो भाव. क्तिप्रत्ययान्तः, अस्याः कृतेः सूत्रं कर्म, कर्ताऽऽचार्यः, उभयत्र च कर्मणि कृत इति कर्तरीति च षष्ठीप्राप्तेर्द्विहेतुकोऽयं क्तिप्रत्ययः । अत्र प्रत्युदाहरणे पाक इति कर्तुः कर्मणश्च षष्ठया निमित्तभूतस्य कृतोऽन्यान्यत्वादुभयप्राप्तिहेतोरेकस्य कृतोऽभावः । चिकीर्षेति, अत्र स्त्र्यधिकारविहितोऽप्रत्ययान्त एव शब्दः । भेदिकेति, स्च्यधिकारविहितो णकान्तशब्दः ॥ कृत्यस्य, वा ॥ कर्तरीति वर्तते । त्वया तव वा कृत्यः कट इति, क्रियते इति कृत्यः, कर्मणि क्यप्प्रत्ययः । कर्तरीति षष्ठीप्राप्तावत्र विकल्पः ॥ न, उभयोः षष्ठी, हेतोः षष्ठी ।। कृत्यस्येत्यभिसम्बध्यते । नेतव्या ग्राममजा मैत्रेणेति, ननु द्विकर्मकेषु धातुष्वेवोभयप्राप्तिसम्भवेन तत्रैवायं प्रतिषेधो वक्तव्यः, तत्र प्रधानकर्मणः कृत्यप्रत्ययेनैवाभिहितत्वेन कर्मणि षष्ठयप्राप्तेः कर्तरि षष्ठया एव प्रतिषेध उचित इत्युभयग्रहणं किमर्थमिति चेन्न, कृत्प्रयोगे हि द्वितीयाबाधिका षष्ठी विधीयते, द्वितीया चाप्रधानादपि भवति, अतः प्रकृतोदाहरणे ग्राममित्यप्रधानकर्मणः षष्ठीप्राप्तौ तनिषेधस्याप्यावश्यकत्वात्षष्ठयपि भविष्यतीति तत्सार्थ