SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । १९९ यवागूः, चैत्राय शतं धारयति ॥ प्रत्याङः श्रुवाणिनि ॥ ५६ ।। प्रत्याभ्यां परेण श्रुवा युक्तादर्थिन्यभिलाषुके वर्तमानाच्चतुर्थी स्यात् । द्विजाय गां प्रतिशृणोति, आशृणोति वा ॥ प्रत्यनोर्गुणाऽऽख्या. तरि ॥ ५७ ॥ प्रत्यनुभ्यां परेण गृणायोगे आख्यातवृत्तेश्चतुर्थी स्यात् । गुरवे प्रतिगृणाति, अनुगृणाति ॥ यद्वीक्ष्ये राधीक्षी ॥५८ ॥ वीक्ष्यं विमतिपूर्वकं निरूप्यं तद्विषया क्रियापि । यस्य वीक्ष्ये राधीक्षी वर्त्तते, तद्वृत्तेश्चतुर्थी स्यात् । मैत्राय राध्यति ईक्षते किं सम्पद्यते ? मूत्ररूपमित्यर्थः । अत्र यवागूः प्रकृतिमूत्रं विकारः, विरुद्धविभक्तिराहित्याइयोस्सामानाधिकरण्यम् , तत्र यद्विकारमापद्यते ततः प्रथमाप्राप्तौ तदपवादभूता चतुर्थ्यनेन भवति । चैत्राय शतं धारयति, धृङत् अवस्थाने इत्यस्मात्प्रयोक्तणिगि धारिस्तद्योगे उत्तमणे धनिके चतुर्थी, स्वरूपेण ध्रियमाणमवतिष्ठमानं शतं प्रयुङ्क्ते कश्चित् । अधमणों ग्राहकः उत्तम! दायकः । अत्रोत्तमर्णश्चैत्रो दानक्रियया धारणस्य निमित्तं, यतोऽसौ तहणं ददाति, ददातिश्च न श्रूयते इत्यश्रूयमाणक्रियात्वाच्छेषे षष्टी प्राप्ता, तद्वारणायेदम् ॥ प्रतिश्चाङ् च तस्मात् , श्रुवा तृतीया, अर्थयते इत्यर्थी तस्मिन् ।। द्विजाय गां प्रतिशृणाति, याचितोऽयाचितो वा प्रतिजानीतेऽधमत्वाद्याचमाने, महत्त्वादयाचमानेऽपि केनाप्याकारादिना स्वाभिलाषं समर्पयति द्विजादावोमिति तस्य प्रतिजानीतेऽभ्युपगच्छतीत्यर्थः । अत्र द्विजो गां प्रतिज्ञानात्प्रयुत इति हेतुतृतीयाप्राप्तावनेन चतुर्थी ॥ प्रतिश्चानुश्च तस्मादणा तृतीयाऽऽख्यातरि सप्तभी ॥ गुरवे प्रतिगृणाति गुरूक्तमनुवदति प्रशंसन्तं वा प्रोत्साहयतीत्यर्थः, शंसनविषयहर्षानुकूलव्यापारलक्षणं प्रोत्साहनं धात्वर्थः । हेतुकर्मसंज्ञाप्रसङ्गेऽनेन चतुर्थी ॥ यस्य वीक्ष्यं यद्वीक्ष्यं तस्मिन् , राधिश्च ईशिश्च प्रथमा॥ वीक्ष्यं सन्देहपूर्वकं निरूपणीयं तच्चादृष्टमिष्टानिष्टं फलं पुण्यपापरूपम
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy