SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १८२ सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्या क्रियाश्रयस्याधारोऽधिकरणम् ॥३०॥ क्रियाऽऽश्रयस्य कर्तुः आश्रयणमाश्रयः, क्रियाया आश्रयस्तस्य, आधारः, अधिक्रियते स्मेत्यधिकरणम् ॥ लोके द्रव्यगुणक्रियाणामधिकरणं भवति, कारकाधिकारादत्र क्रियाश्रयमेवाधिकरणम् । क्रिया हि साक्षात्कर्मणि कर्तरि च वर्तत इति साक्षात्तस्या अधिकरणं तावेक । एवञ्च साक्षादाधारयोः कर्मकोंाप्यस्वतन्त्रपदाभ्यां कर्मकर्तृसंज्ञाभ्यामाक्रान्तत्वात्परम्परया क्रियाधारस्याधिकरणसंज्ञा विधीयते, तदेवोक्तं क्रियाश्रयस्येत्यादिना । परम्पराघटके च कर्तृकर्मण्येव । कटे आस्त इत्यत्रासिक्रियाधार चैत्रं धारयन्कटादिरधिकरणतां प्रतिपद्यते । स्थाल्यां तण्डुलान् पचतीत्यत्र विक्लित्तिरूपफला-श्रयान् तण्डुलान् धारयन्ती स्थाल्यधिकरणभावमापद्यते । क्रियाश्रयस्य धारणद्वारेण क्रियासिद्धावधिकरणस्योपकारकत्वाक्रियाहेतुत्वेन कारकत्वम् । तच्चाधिकरणं षोढा, वैषयिकमौपश्लेषिकमभिव्यापकं सामीप्यकं नैमित्तिकमौपचारिकश्च । अनन्यत्र भावो विषय. स्तस्मै प्रभवतीति वैषयिकं यथा दिवि देवाः, नभसि तारका इत्यादि। देवादीनामन्यत्र प्रवृत्त्यभावाद्दिवादयो विषयाः । एकदेशमात्रसंयोग उपश्लेषस्तत्र भवमोपश्लेषिकं यथा कटे आस्ते, पर्यङ्के शेते, गृहे तिष्ठतीत्यादि, कटा दिर्हि देवदत्तादिनैकदेशेन संयुज्यते । यस्याधेयेन समस्तावयवसम्बन्धस्तदभिव्यापकम् । तद्ध्याधेयेनाभिव्याप्यते, आधेयं वाभिव्याप्नोति यथा तिलेषु तैलं गवि गोत्वं तन्तुषु पटः, अत्र तिला. द्यवयवान् व्याप्य तैलादिरवतिष्ठते, अत्र सर्वत्र क्रियाया अश्रवणेऽपि प्रतीयमानक्रियापेक्षयाऽऽधारत्वं विज्ञेयम् । यदाधेयसन्निधिमात्रेण क्रियाहेतुस्तत्सामीप्यकं यथा गङ्गायां घोषो बन्धुष्वास्ते, गुरौ वसतीत्यादि, घोषादीनां गङ्गाद्यायत्ता स्थितिरिति सन्निधिमात्रेण गवादीनामाश्रयत्वम् । न हि संयोगसमवायनिमित्तक एवाधाराधेयभावः, यदायत्ता यस्य स्थितिः स विनापि संयोगसमवायौ तस्याश्रयो भवति,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy