________________
प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । १२५ गतः, जनोऽस्मान् सन्दृश्यागतः। जनो युवां समीक्ष्यागतः, जन आवां समीक्ष्यागतः । जनस्त्वामपेक्षते, जनो मामपेक्षते । सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः । दृश्यर्थैरिति किम् ? जनो वो मन्यते । चिन्तायामिति किम् ? जनो वः पश्यति ॥ नित्यमन्वादेशे ।। ३१ ॥ किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातुं कथनमन्वादेशस्तस्मिन् विषये, पदात्परयोयुष्मदस्मदोर्वस्नसादिनित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति, वयं विनीतास्तन्नो गुरवो मानयन्ति । धनवांस्त्वमथो त्वा लोको मानयति, धनवानहमथो मा लोको मानयति ॥ सपूर्वात् प्रथमान्ताद्वा ।। ॥ ३२ ॥ विद्यमानपूर्वपदात् प्रथमान्तात्पदात्परयोर्युष्मदस्मदोरन्वादेशे वस्नसादिर्वा स्यात् । यूयं विनीतास्तद्गुरवो वो मानयन्ति, तद्गुरवो युष्मान् मानयन्ति । वयं विनीतास्तद्गुरवो नो मानयन्ति, तद्गुरवोऽस्मान् मानयन्ति । युवां सुशीलौ तज्ज्ञानं वां दीयते, तज्ज्ञानं युवाभ्यां दीयते। आवां सुशीलौ तज्ज्ञानं नौ दीयते, तज्ज्ञानमावाभ्यां दीयते ।।
दादेशोऽन्वादेशस्तस्मिन् , कस्यचिद्व्यस्य काञ्चिक्रियां जातिं गुणं द्रव्यं वा प्रतिपादयितुं कथितस्य तेन तदितरेण वा शब्देन पौनरुक्त्यं मा भूदिति विशेषान्तरं प्रतिपादयितुं पुनः कथनमन्वादेशः । यूयं विनीतास्तद्वो गुरवो मानयन्ति, अत्र प्रथमं युष्मच्छब्देन विनीतत्वमुक्त्वा पुनयुष्मच्छब्देन गुरुमाननं विधीयते, अतोऽत्र युष्मदो द्वितीयान्तस्य वसादेशः। एवमग्रे॥ सह पूर्वेण वर्तते तस्मात् । प्रथमाऽन्ते यस्य तत्प्रथमान्तं तस्मात्, वा ।। सहशब्दो विद्यमानवचनः पूर्वशब्दो व्यवस्थार्थः सह विद्यमानं पूर्वपदं यस्मादिति वा समासः । प्रथमायाः प्रत्ययत्वात् 'प्रत्ययः प्रकृत्यादेरि'त्यादिनान्तस्य लब्धत्वादन्तग्रहणं तदनुवादार्थम् । गुरवो वो मानयन्ति अत्र गुरव इति प्रथमान्तं विद्यमान पूर्वपदम् । ततः परस्य युष्मदो वमादेशः । पूर्वेण नित्ये प्राप्ते विकल्पार्थ वचनम् ॥ त्यदां षष्ठी, एनद् प्रथमा, एतदः षष्ठी, द्वितीया च