SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ११६ सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यायस्य अत्यावया, त्वयि मयि, युवयोः आवयोः। टाड्योसीति किम् ! त्वत् मत् ॥ शेषे लुक् ॥८॥ यस्मिन्नायौ कृतौ ततोऽन्यः शेषः, तस्मिन् स्यादौ परे युष्मदस्मदोर्लक् स्यात् । युष्मभ्यम् , अस्मभ्यम् ; अतित्वत् अतिमत् । शेष इति किम् ? त्वयि, मयि ॥ मोर्वा ॥९॥ शेषे स्यादौ परे युष्मदस्मदोर्मो ग्वा स्यात् । युवां युष्मान्वा, आवां अस्मान्वाऽऽचक्षाणेभ्यो णिचि विपि च लुकि च, युष्मभ्यम् , युषभ्यम् । अस्मभ्यम् , असभ्यम् ॥ मन्तस्य युवावो द्वयोः ॥ १० ॥ द्वयर्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य स्यादौ परे यथासङ्ख्यं युवामतिक्रान्तेनेति विग्रहे तु युष्मदस्मदोः द्वयर्थवृत्तित्वात् युवादेशेन अतियुवयेति भवति युष्मानतिकान्तेनेति विग्रहे चातियुष्मया ॥ शेषे, लुक् ।। युष्मस्मदोरिति वर्तते । आत्वयत्वविधाननिमित्तभिन्नस्यादिप्रत्ययः शेषः । 'षष्ठयान्त्यस्ये ' ति न्यायाद्दकारस्यैव लुक् । त्वामतिक्रान्तादिति विग्रहे अतित्वत्। त्वयि मयीत्यादौ २: 'टाइयोसी 'ति यत्वे निमित्तत्वान्न शेषत्वम् । अत्र शेषग्रहणाभावे टाड्योसीत्यधिकार आगच्छेत् । मोरिति षष्ठीद्विवचनम्, वा ॥ मोरनुवृत्तयुष्मदस्मदोर्विशेषणत्वेन तदन्तविधिः। शेषे, लुगित्यप्यनुवर्तेते । युवां युष्मान्वा आचष्टे युष्मयति, आवामस्मान् वाऽऽचष्टे अस्मयति, ततः किपि तल्लुकि च युष्म् अस्म् इति युष्मदस्मदोर्मान्तत्वम् , अनयोः सिजस्छेङस्सु प्रत्ययेषु परत्वात्त्वमहमादय एवाऽऽदेशाः स्युः । अमौभ्यामसुपरत्वात् त्वमाद्यादेशे पश्चादात्वम् । टाङयोसि । परान्नित्यमिति' न्यायेन नित्यत्वात्त्वमादिकार्येभ्यः प्रथममेव पूर्वेण मकारस्य यत्वे युष्या अस्या । भ्यसोऽभ्यमादे. शेऽनेन सूत्रेण युष्म् अस्म् शब्दयोर्मकारस्य वा लुकि युष्मभ्यम् युषभ्यम् , अस्मभ्यम् असभ्यम् ॥ म् अन्ते यस्य स मन्तस्तस्य, · युवश्च आवश्च युवावौ, द्वयोः ॥ युष्मदस्मदोरित्यनुवर्तते, एवमप्रेऽपि
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy