________________
सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य य इति किम् ? अतिसखेः, अधिपतेः ।। ऋतो डुर् ॥ ३७॥ ऋतः परयोः ङसिङसोर्डर् स्यात् । पितुः, पितुः ॥ तृस्वरसृनप्तृनेष्टत्वष्टक्षत्तृहोतृपोतृप्रशास्त्रो घुट्यार् ॥ ३८॥ तृच्तृन्नन्तस्य स्वस्रादीनाञ्च ऋतो घुटि परे आर् स्यात् । कर्तारम्, कर्तारौ २, करिः । स्वसारम् , नप्तारम् , नेष्टारम् , त्वष्टारम् , क्षत्तारम् , होतारम् , पोतारम् , प्रशास्तारम् । घुटीति किम् ? कर्तृ कुलं पश्य ।। अौँ च ।। ३९ ॥ ऋतो ङौ घुटि च परे अर् स्यात् । नरि, नरम् ।। मातुर्मातः पुत्रेऽहें सिनाऽऽमन्व्ये ॥ ४० ॥ मातुरामन्व्ये, पुत्रे वर्तमानस्य सिना सह मातः स्यात् , अहें प्रशंसायाम् । हे गार्गी
वर्तते । पितृ अस्, अत्रानेन ङसः डुर्, ड इत् , 'डित्यन्त्ये 'ति ऋकारलोपः पितुः ।। ता च स्वसा च नप्ता च नेष्टा च त्वष्टाच क्षत्ता च होता च पोता च प्रशास्ता च तस्य, घुटि, आर || ऋत इत्यनुवर्तते । तृपदेन तृच्तृनोर्ग्रहणम् । व्युत्पत्तिपक्षे तृग्रहणेनैव सिद्धे नत्रादिग्रहणं नियमार्थम , तेनान्येपामौणादिकानां न भवति, यथा भ्रातरौ पितरौ इत्यादि । अव्युत्पत्तिपक्षे तु तृशब्देन सार्थकेन नप्त्रादिसंज्ञाशब्दघटकतृशब्दस्य निरर्थकस्य ग्रहणासम्भवात्तेषां पृथगुपादानम् । नात्र पभे नियमः। अव्युत्पत्तिपक्षे इदमे र तृग्रहणं 'अर्थवद्हणे नानर्थकस्ये 'ति न्यायं सूचयति, अन्यथा तृशब्देन नप्त्रादीनामव्युत्पन्नत्वेऽपि ग्रहणसम्भवान्नप्त्राद्युपादानं व्यर्थ स्यात् । करोतीति कर्ता, तम् , कर्तृ अम् , अनेन सूत्रेण घुटि परे ऋकारस्यार् भवति कर्तारम् , स्वसारमिति स्त्रीलिङ्गे द्वितीयैकवचनम् ।। अर प्रथमा । ङौ सप्तमी, च ॥ ऋतः इत्यनुवर्तते । चशब्देन घुटोऽनुको निमित्तशब्दानन्तरं श्रवणात् । नरीति रुदाहरणम् ।। मातुः षष्ठी, मातः प्रथमा पुत्रे अहें सिना तृतीया आमन्त्र्ये । अत्र मातृशब्दः पुत्रेऽर्थे बहुव्रीहौ सत्येव वर्तते, सगस्तेन च गातद्वारेण पुत्रप्रशंसायां गम्यमानायां मातादेशः, कचोऽ