________________
चतुर्थपादः अवचूरिपरिष्कारसहितायाम् ।
७९ सर्वे ॥ नेमार्द्धप्रथमचरमतयायाल्पकतिपयस्य वा ॥१०॥ नेमादीनि नामानि तयायौ प्रत्ययौ तेषामदन्तानां जस इर्वा स्यात् । नेमे, नेमाः । अर्द्ध, अर्द्धाः। प्रथमे, प्रथमाः। चरमे, चरमाः । द्वितये, द्वितयाः । त्रये, त्रयाः । अल्पे, अल्पाः । कतिपये, कतिपयाः ।। द्वन्द्वे वा ॥११॥ द्वन्द्वसमासस्थस्यादन्तस्य सर्वादेर्जस इर्वा स्यात् । पूर्वोत्तरे, पूर्वोत्तराः ॥ न सर्वादिः ॥ १२ ।। द्वन्द्वे अनुवृत्तिः पूर्ववत् । अयमादेशः 'षष्ठ्यान्त्यस्ये 'ति जसः सकारस्य प्राप्तोऽपि 'प्रत्ययस्ये 'ति सूत्रेण सर्वस्य जसो भवति ॥ नेमश्च अर्धश्च प्रथमश्च चरमश्च तयश्च अयश्च अल्पश्च कतिपयश्च तस्य, वा ॥ अतः जस इः इत्येतेषामनुवृत्तिः । सूत्रे तयायौ प्रत्ययौ ग्राह्यौ, केवलयोस्तयोः प्रयोगासम्भवात्तदन्तस्य नाम्नो ग्रहणम् । तयप्रत्ययसाहचर्यादयप्रत्ययोऽपि तद्धितो ग्राह्यः । नेमस्य जसो नित्यमित्वे प्राप्त इतरेषाश्चाप्राप्ने विकल्प्यते । द्वौ अवयवौ येषान्ते द्वितये ' अवयवात्तयट्' त्रयोऽवयवा येषान्ते त्रये त्रयाः, 'द्वित्रिभ्यामयड्वे 'त्ययट्प्रत्ययः । अयि, वयि पयि गतौ । कतिपयंते इति कतिपयाः, 'लिहादिभ्यो अच् । ' व्यवस्थितविभाषाऽऽश्रयणादर्दादीनामपि संज्ञाया इरादिर्न भवति । व्यवस्थितं मर्यादानतिक्रान्तं प्रयोगजातं विशेषेण भाषत इति व्यवस्थितविभाषा ।। द्वन्द्वे, वा ।। अतः, सर्वादेः, जसः इरित्यनु वतन्ते ।पूर्वे चोत्तरे च पूर्वोत्तरे । उत्तरेण प्रतिषेधे प्राप्ते प्रतिप्रसवार्थो योगः॥ न, सर्वादिः ॥ सर्वादेरिति विभक्तिविपरिणामेनाऽनुवर्तते, द्वन्द्वे इति च । पूर्वश्वापरञ्च पूर्वापरं तस्मै, उयः, पूर्वस्य च आः । द्वयोर्मध्ये प्रकृष्टा: के इति कतरे। बहूनां मध्ये प्रकृष्टाः के इति कतमाः । कतरे च कतमे च कतरकतमाः, तेपाम ' हम्वापश्च' नाम । कुत्सिताअल्पा अज्ञाता वा कतरकतमकाः। अत्र सर्वादित्वनिषेधादप्रत्ययाऽभावे स्वार्थिके कप् प्रत्यये सति स्वार्थिकप्रत्ययान्तस्य सर्वादाव