________________
७० . सिद्धहेमलघुवृत्ती [ प्रथमाध्यायस्य तज्जकारण, पेष्टा, पूष्णः, तट्टकारः, तण्णकारेण, ईट्टे ॥ सस्य शषौ ॥११॥ सस्य श्चवर्गष्टवर्गाभ्यां योगे यथासङ्ख्यं शषौ स्याताम् । चवर्गेण-श्योतति, वृश्चति, षेण, दोष्षु । स्वर्गेण-पापक्षि ।। न शात् ॥६२।। शात्परस्य तवर्गस्य चवर्गो न स्यात् । अनाति, प्रश्नः ॥ पदान्ताहवर्गादनाम्नगरीनवतेः ॥ ६३ ॥ पदान्तस्थादृवर्गात्परस्य
तवर्गस्येति कथनात्तदेकदेशस्य तकारस्य चकारो न भवति, विशिष्टतवर्गसमुदायाभावात् , तथापि समुदायैकदेशस्यापि समुदायात्मकत्वाद्रामैकदेशे दग्धे ग्रामो दग्ध इति प्रतीतिवत् तकारस्यापि तवर्गत्वाद्यथासंख्यं चवर्गः स्यादेव । अनेन तकारस्य चकारः तत'श्चजः कगमिति न भवति, पदमात्राश्रयत्वेन 'चजः कगमि'त्यस्यान्तरङ्गत्वेन · असिद्धं बहिरङ्गमि 'ति न्यायेन चवर्गस्यासिद्धत्वात् एवं भवान् शेते, नस्य बः। तत् चारु, तस्य चः। एवं तद् जकारेण, दकारस्य जकारः । पूर्वतो योगे दृष्टान्तमाह-पेष ता, अत्र तस्य टः । एवमग्रेऽपि, यथासङ्घयमिति, अत्र स्थान्यादेशयोयथासङ्घयं विज्ञेयम् । न तु निमित्तकार्थिणोः, 'न शादि 'ति सूत्रारम्भात् ॥ सस्य, शश्च षश्च शपौ ।। श्ववर्गष्टवर्गाभ्यां योग इत्यनुवर्तते । श्योततीत्यादौ धातोरादिभूतः सकारो विज्ञेयः, नकारजावनुस्वारपञ्चमौ धुटि धातुषु । सकारजः शकारश्च टि. वर्गस्तवर्गजः ॥ इत्यभियुक्तोक्तेः । अनेन सूत्रेण तस्य शकारो जातः, एवं वृश्चतीत्यत्रापि । दोस् सुप् , ' सोरुः' सस्य 'शषसे' सत्वं ' नाम्यन्तस्था' इति सव्यवधानेऽपि सोः षत्वम् , दोस् घु, अनेन षः । अट पट गतौ, कुटिलं पटसि, पापलि, 'गत्यर्थे यङ्', ' सन्यङश्चे 'ति द्वित्वम् । ' व्यञ्जनस्यानादेर्लुगि 'ति टलोपे, 'आ गुणावन्यादेरि'ति वा, 'बहुलं लुप्' यङ लोपः, अनेन षः । न, शात् ॥ तवर्गस्य चवर्ग इत्यनुवर्तेते । अशश् भोजने,